Swaagatam

स्वागतम्

Saturday, October 22, 2011

कथा

आर्य:
 (कन्नडमूलम् - सत्यबोध:)
मार्गे गच्छता वृद्धेन सह किमर्थम् अहम् एतावता प्रमाणेन सम्बद्धो जात: इति नावगच्छामि । स: न मम परिचित:, न वा बन्धुः । मम स्वयंकृतापराध: अयम् । मयैव तस्य संसर्ग: कृत: ! तद्दिने एतावत् प्रवृत्तम् -
सायङ्काले ‘ब्यूगल्राक्’नामके उद्याने युवकलाविदां सङ्गीत-कार्यक्रम: चिरात् आयोजित: आसीत् । महाविद्यालयीया: कक्ष्या: समाप्य मित्रै: सह अहं तत्र गत: । गणेशभवनस्थानके लोकयानात् अवतीर्य मित्रै: मार्गक्रमणं कृतम् । मयापि तथा करणीयमिति यावत् चिन्तितं, तावता समीपे कश्चन उन्नत: वृद्ध: मया दृष्ट: । समीकृतं श्वेतवर्णीयम् ऊरुकं, समीकृतं श्वेतवर्णीयं युतकञ्च तेन धृतम् आसीत् । यानानां सम्मर्दवशात् मार्गक्रमणे तेन अन्ाुभूयमान: क्लेश: मया अवलोकित: । अन्ाुस्यूततया लोकयानानि अटन्ति महता वेगेन । निरन्तरम् अव्याहततया यानानां सञ्चार: । मत्सदृशा: युवान: एव मार्गक्रमणे क्लेशम् अन्ाुभवन्ति । एवं स्थिते का वा कथा अस्य वृद्धस्य ! तस्य एतां स्थितिम् अवलोक्य अपि तथैव त्यक्त्वा गमनंं मम मन: न अङ्ग्यकरोत् ।
‘‘आगच्छतु आर्य !’’ इति वदन् अहं तेन सह मार्गक्रमणम् अकरवं विरलं यानसम्मर्दं दृष्ट्वा ।
कृतज्ञातपूर्वकं मां दृष्ट्वा ‘‘धन्यवाद:’’ इत्युक्तं तेन ।
तत: अहं वेगेन गत्वा मित्राणां गणं प्रविष्ट: ।
‘‘किमर्थम् इयान् विलम्ब: ?’’ - मित्रेण राघवेन्द्रेण पृष्टम् ।
‘‘कश्चन वृद्ध: मार्गं क्रमितुं कष्टम् अनुभवन् अवर्तत । तं मार्गं क्रामयित्वा आगतं मया । अत: विलम्ब:’’ इति प्रत्युत्तरं दत्तं मया ।
‘‘किमर्थम् एते वृद्धा: एकाकिन: एवम् अटन्ति इति न    ज्ञायते !!’’ इति उक्तवान् अपर: सुहृत् नायर् ।
‘‘स: भवत: पितामह: स्यात् इति अहं चिन्तितवान् आसम्’’ इति  विनोदेन उक्तवान् अन्य: सुहृत् आचार्य: ।
स: यत् ‘भवत: पितामह:’ इति पदं प्रायुङ्क्त तेन अहं भावुक: संवृत्त: । मम पितामह: षड्भ्य: मासेभ्य: पूर्वं दिवङ्गत: । स: मां बहु इच्छति स्म । यदा अहं ग्रामं गच्छेयं, तदा स: मां पार्श्वे उपावेश्य - ‘कथं प्रचलति अध्ययनम् ?’ इति विचारयति स्म । ‘किं किं  पाठ्यते ?’ इति पृच्छति स्म । ‘सम्यग् अधीष्व’ इति अभिमानेन कथयति स्म । स: यदा अस्वस्थ: आसीत्, तदा मम परीक्षाकाल: । तस्य स्थिति: गम्भीर: एव आसीत् । पिता एतं विषयं मां सूचयितुम् इष्टवान् । पितामह: तु - ‘तस्य सूचनं मास्तु । स: भीत: भवेत् । तस्य तु अयं परीक्षाकाल: । अहं स्वस्थ: एव अस्मि’ इति उक्तवान् इति श्रुतम् । किन्तु तदैव स: दिवङ्गत: ।
उद्याने महान् जनसम्मर्द: दृष्ट: । भावगीतानां मध्ाुरं गानम् आह्लादम् अजनयत् । गीतवत्य: सर्वा: महाविद्यालये पठन्त्य: बालिका: । ऊरुकधारिण्य: बालिका: एव सर्वदा दृष्टवत: नेत्रयो: भारतीयवेषधारिण्य: इमा: गायिका: अरोचन्त । अन्येषु दिनेषु चेत् आरात्रि तत् सङ्गीतं, बेलूरुशिलाबालिकासदृशं तासां सुमनोहरं रूपं, भावभङ्गी च मन: आवृणुयात् । किन्तु तस्यां रात्रौ मया स: वृद्ध: एव प्ाुन: प्ाुन: स्मर्यते स्म । अकस्मात् दृष्ट: स: वृद्ध: पितामहं स्मारितवान् आसीत् । पितामह: एव पार्श्वे उपविश्य शिर: आमृशन्निव, ‘वत्स ! सम्यग् अधीयताम्’ इति कथयन्निव दृश्यते स्म । तद्विषयिण्य: एव विविधा: कल्पना: आरात्रि ।
मया बहु अध्येतव्यं, प्रसिद्धेन तन्त्रज्ञेन भवितव्यम् इति पितामह: इच्छति स्म । अस्माकं बन्ध्ाुषु तन्त्रज्ञ: कोऽपि न आसीत् । ‘पितामह ! निरीक्ष्यताम् । अहं प्रसिद्ध: तन्त्रज्ञ: भविष्यामि’ इति शपथं कुर्वन्निव अहं कथयामि स्म । पितामह: आश्चर्यप्ाूर्णाभ्यां नेत्राभ्यां पश्यन् अभिमानेन ‘साध्ाु, साध्ाु’ इति कथयति स्म । सर् एम् विश्वेश्वरय्यवर्य: तस्य दृष्ट्या देवता-स्वरूपायते । तस्य किञ्चन महत् भावचित्रं प्रवेशद्वारस्य अन्तर्भागे स्थापितम् आसीत् । भावप्ाूर्णतया तत् भावचित्रं पश्यन् पितामह: - ‘महान्त: एतादृशा:’ इति कथयति स्म । इतोऽपि वर्षद्वयं यावत् स: यदि जीवित: अभविष्यत् तर्हि मम तान्त्रिकमहाविद्यालयप्रवेशं दृष्ट्वा महान्तं सन्तोषम् अन्वभविष्यत् ।
पितामहं स्मरत: मम नेत्रे अश्रुप्ाूर्णे जाते । विषादपूर्णं मन: खिन्नतया आवृतम् अभवत् ।
एवमेव दश दिनानि अतीतानि । कदाचित् सायङ्काले मार्गे गमनावसरे अकस्मात् जनसम्मर्दे मन्दं चलन् स: वृद्ध: मया अवलोकित: । आत्मीयं जनं दृष्टवान् इव अहं तं दृष्ट्वा सन्तोषेण तस्य समीपं गत्वा - ‘‘आर्य ! अपि कुशलम् ?’’ इति अपृच्छम् । समीकृतै: वस्त्रै: तस्य महत्ता प्रतीयते स्म । मम अभिज्ञानं प्राप्तवान् स: आश्चर्येण - ‘‘भवान् कथम् अत्र ?’’ इति पृष्टवान् ।
‘‘भवत: गृहं क्व वर्तते आर्य ? एकाकितया क्व प्रस्थितं    भवता ?’’ इति पृष्टं मया ।
‘‘फलानि अपेक्षितानि आसन् । अत: अत्र आगतम् ।’’
‘‘जनसम्मर्दयुते अस्मिन् समये भवता किमर्थम् अयं श्रम: उह्येत ? पश्यतु पादमार्गम्’’ इति दर्शितं मया ।
‘‘इदमेव अभ्यस्तम्’’ इति कथयन् स्मितवदन: स: ‘‘क्व भवद्गृहम् ?’’ इति  पृष्टवान् ।
‘‘मम गृहं गौरीपुरे वर्तते । अहं छात्रावासे निवसामि’’ इत्युक्तं मया ।
एवमेव तदा तदा अनिरीक्षितमेलनानि सम्भवन्ति स्म । आर्य: प्रतिवारमपि समीकृतै: विभिन्नै: वस्त्रै: शोभते स्म । अस्मिन्नपि वयसि कार्यालयं प्रस्थितवान् उन्नताधिकारी इव समीकृतै: शुभ्रवसनै: स: शोभते स्म । प्राय: स: आरम्भकालादपि अन्ाु-शासनपालक: इव प्रतिभाति स्म । कश्चन सामान्य: स्कन्धस्यूत: तस्य स्कन्धे सर्वदा भवति स्म । स: तस्मिन् विद्यमानं सेवफलं, नारङ्गं, कदलीफलं वा मह्यं प्रददाति स्म ।
‘‘किमर्थम् इदम् ?’’ इति पृष्टे, ‘‘फलानि सर्वेभ्य: दत्त्वा खादनीयानि’’ इति कथयति स्म ।
‘कदाचित् गृहम् आगच्छ’ इति आह्वयति स्म स: । वृद्धा: बहु जल्पन्ति इति मत्वा - ‘अस्तु आर्य ! पुन: कदाचित् आगमिष्यामि’ इति कथयामि स्म । एतादृशानि मेलनानि तदा तदा सम्भवन्ति स्म ।
द्वित्रेषु मासेषु दीर्घकालात् परिचित: इव जातस्य तस्य विषये कश्चन आप्तताभाव: मयि उत्पन्न: । स: जगत: विषये, बान्धवानां विषये च भाषते स्म । किन्तु यदा वैयक्तिकविषयप्रस्ताव: भवेत् तदा स: मौनी भवति स्म । कदाचित् स: एतादृशविषयप्रस्ताव-कारणात् गम्भीर: भवति स्म । तदनन्तरं मया तस्य वैयक्तिकविषये कदापि न पृष्टम् । स च विषय: मत्सम्बद्धोऽपि न खलु ?
प्ाुन: पञ्चदश दिनानि अतीतानि । तावत्सु दिनेषु कदाचिदपि तस्य दर्शनं न जातम् । केवलं मार्गे जात: परिचय: एतावन्तम् आतङ्कं जनयेत् इति मम कल्पना अपि न आसीत् । ‘वृद्धस्य तस्य गृहं कुत्र इति वा यदि ज्ञातं स्यात् तर्हि तत्र गत्वा विचारयितुम् अशक्ष्यम् । यदा तेन गृहं प्रति आहूतं, तदैव गन्तव्यम् आसीत्’ इति पश्चात्ताप: माम् अबाधत । कदाचित् स: दृष्टिपथम् आगच्छेत् इति तस्यां वीथ्यां मया द्वित्रवारं सञ्चार: कृत: । लोकयानेन गमनावसरेऽपि तस्यां वीथ्यां मम दृष्टिपात: भवति स्म ।
एवमेव काल: अतीत: । पुन: कदाचित् तस्यामेव वीथ्यां यथाप्ाूर्वं हस्तेन कञ्चन लघुस्यूतं गृहीत्वा गच्छन् स: वृद्ध: मया अवलोकित: ! ‘अहो ! लब्ध: !’ इति चिन्तयता मया काचित् मनस्तृप्ति: अन्ाुभूता । अहं किञ्चिदिव कुपितोऽपि । ‘‘किम् आर्य ! एतावन्ति दिनानि कुत्र गतम् आसीत् भवता ?’’ इति आक्षेप: कृत: मया ।
आश्चर्येण दृष्टं तेन । ‘एवं न वक्तव्यम् आसीत्’ इति तदनु अवगत्य अहं लज्जित: अभवम् ।
‘‘पौत्र: द्रष्टव्य: इति अभासत । अत: गतवान् आसम्’’ इति उक्तं तेन ।
अन्ाुक्षणमेण अहं पृष्टवान् - ‘‘किम् आर्य ! भवत: पुत्र: पौत्र: वा अस्मिन्नेव नगरे सन्ति ? क्व सन्ति ते ? भवान् किमर्थम् एकाकी वसति ?’’ इति ।
ते प्रश्ना: तस्मै न अरोचन्त । स: यदा मौनी संवृत्त: तदा मम दोष: अवगत: मया ।
पुन: कदाचित् रात्रौ सप्तवादनसमये मार्गे एक: एव गच्छन् स: दृष्ट: मया । ‘रात्रौ एतस्मिन् काले यदि विद्युदभाव: सम्भवेत्, तर्हि महान् क्लेश: । पादमार्गोऽपि समीचीन: न भवति । युवान: वयमेव क्लेशम् अनुभवाम: । अयं तु वृद्ध: अस्मिन् काले एवम् अटति !’
‘‘किम् आर्य ! अस्मिन् समये वायुसञ्चारार्थं प्रस्थितं किम् ?’’ - मया पृष्टम् ।
‘‘प्रात:काले विस्मृतम् । गुलिका: समाप्ता: आसन्’’ - स: अवदत् ।
‘‘एतदर्थं किं भवता एव अटनीयम् ?’’ इति प्ाुन: पृष्टं मया ।
तेन उत्तरं किमपि न दत्तम् । अन्धकार: सर्वत्र प्रसृत: आसीत् तावता । ‘गृहपर्यन्तम् आगच्छ’ इति प्रार्थना कृता तेन । ‘अधुना कार्यम् अस्ति, पुन: कदाचित् आगमिष्यामि’ इति वक्तुम् अनिच्छन् अहं तेन सह तस्य गृहं प्रति प्रस्थित: । 
वृद्धोऽपि स: दृढतया एव पदानि आदधान: अग्रे अगच्छत् । तत: अग्रे षष्ठे उपमार्गे दक्षिणत: विद्यमानस्य सवृतिकस्य महा-गृहस्य पार्श्वे विद्यमानं लघुगृहमेव आर्यस्य आवासस्थानम् ।
‘‘अत्र भवान् एक: एव निवसति किम् ?’’ - मया पृष्टम् ।
‘‘न अहम् एकाकी । तत्र पश्य’’ इति उक्त्वा भित्तौ लम्बमानं किञ्चन भावचित्रं तेन दर्शितम् ।
तत्र आसीत् कस्याश्चित् अल्पवयस्काया: महिलाया: चित्रम् । तस्या: मुखे मन्दहास: विलसति स्म । ललाटे बृहदाकारं कुङ्कुमं विराजते स्म ।
‘‘विवाहात् परं केषाञ्चित् दिनानाम् अनन्तरं स्वीकृतं मम पत्न्या: भावचित्रम् इदम्’’ इति माम् उक्त्वा ‘‘सुलक्षणोपेता खलु   सा !’’ इति उक्तं तेन स्वगतम् इव । तत् भावचित्रमेव निर्निमेष-दृष्ट्या पश्यन् स: क्षणं विचलितचित्त: इव अभासत ।
‘अनेन सह सम्भाषणमेव क्लेशं जनयति । कदाचित् अयं लीलया विषयं विस्मारयति । कदाचित् गम्भीर: भवति । कदाचित् भावपूर्णं भवति तदीयं मन: ।’
‘एक: एव कथं वा पाकादिकं कृत्वा भुङ्क्ते भवान् !’ इति सामान्यं प्रश्नं प्रष्टुमपि सङ्कोच:, काचित् विलक्षणा भीति: च । पाकशालायां काचित् अनिलचुल्ली वर्तते । कतिचन पात्राणि  दृश्यन्ते । कोणे पाथेयपात्रमपि दृश्यते । ‘कश्चित् बाह्य: जन: पाकं कृत्वा यच्छति उत बहिर्भागत: पाथेयपात्रद्वारा आहार: आनाय्यते ?’ इति मया न ज्ञातम् ।
‘‘एकाकिता किं भवति जामितां न जनयेत् ?’’ इति पृष्टं मया ।
तेन उक्तम् - ‘‘किं वा कर्तंु शक्यम् ? भवान् एव अत्र    तिष्ठतु ।’’
‘‘एकाकितया रात्रौ बहि: न अटनीयं भवता । मार्गेषु महान् यानसम्मर्द: भवति ।’’
‘‘गुलिका: समाप्ता: इति रात्रौ ज्ञायते । किं वा कर्तुं शक्यम् ?’’
‘‘गुलिकानाम् आवलीं मह्यं ददातु । सर्वा: गुलिका: आनीय स्थापयिष्यामि ।’’ 
‘‘चिन्ता मास्तु, अहमेव आनेष्यामि । मम विषये भवत: महान् आदर: य: दर्श्यमान: अस्ति तदर्थं धन्यवादा:’’ इत्युक्तं स्मयमानेन तेन ।
क्षणं विरम्य तेन पृष्टम् - ‘‘भवत: पिता किं करोति ?’’
‘‘मम पिता माध्यमिकविद्यालये अध्यापक: । सायङ्काले कस्मिंश्चित् आपणे गणनां लिखति अपि’’ इति उत्तरितं मया ।
‘‘तावान् श्रम: उह्यते चेत् किम् आरोग्यं न नश्येत् ?’’ इति चिन्ताकुलेन तेन पृष्टम् ।
‘‘भवता सम्यगेव अभिहितम् आर्य ! किन्तु मम पिता अस्माभि: निषिध्यमाने अपि गणनालेखनकार्यार्थं गच्छति प्रतिदिनम् ।’’
‘‘भवद्भि: निषिध्यमाने अपि ?....’’- आश्चर्येण पृष्टं तेन ।
‘‘मया तन्त्रज्ञविद्या (Engineering) अध्येतव्या इति कथयति स: । प्रवेशशुल्कत्वेन भूरि धनं खलु अपेक्षितम् इति कथयति    स: ।’’
एतत् श्रुत्वा आर्य: गम्भीर: जात: ।
‘‘मातापितरौ महता श्रमेण धनम् अर्जयित्वा अध्ययने साहाय्यम् आचरन्ति । किन्तु भवन्त: तन्त्रज्ञा: सन्त:  मातापितरौ उपेक्ष्य सुखेन जीवन्ति’’ इति सखेदं स्वाभिप्रायं प्रकटितवान् स: ।
‘‘नाहं तादृश:, आर्य !’’
‘‘भवान् तादृश: इति न मम अभिप्राय: । भवादृशा: तरुणा: प्राय: एवमेव व्यवहरन्ति । विदेशेषु छात्रा: स्वतन्त्रतया पठन्ति । माध्यमिकविद्यालये अध्ययनं समाप्य स्वातन्त्र्येण अर्जयन्त: पृथक् निवसन्तीति श्रुतं मया ।’’
‘‘सत्यम् उक्तं भवता ! तत्रत्या संस्कृति: विलक्षणा । माध्यमिकविद्यालयपर्यन्तमेव पोषकाणां दायित्वम् इति श्रूयते ।’’
‘‘किन्तु अस्माकं देशे पश्य । महाविद्यालयशिक्षणव्ययोऽपि पोषकैरेव उह्यते । समग्र: अपि आय: अपत्येभ्य: व्ययीक्रियते मातापितृभ्याम् । निवृत्तिसमये तयो: वित्तकोशीय: धनराशि: समाप्त: भवति’’ इति ।
किञ्चित्कालं मौनम् आश्रित्य तेन पुन: कथनम् अनुवर्तितम् - ‘‘धनं सर्वमपि व्ययितं भवेत् चेदपि गृहं विशालं स्यात् चेदपि पुत्रपौत्रादय: गृहे यदि न स्यु: तर्हि सर्वत्र रिक्तता अनुभूयते ननु ?’’
आर्य: बहु चिन्तयति इति अभासत । ‘‘आर्य ! अस्य गृहस्य भाटकं कियत् ?’’ इति पृष्टं मया ।
‘‘किमर्थम् ? किं भवता तत् दीयेत ?’’ इति प्रतिपृष्टं तेन ।
‘‘अध्ययनानन्तरं यदा समीचीन: उद्योग: प्राप्येत, तदा अहमेव दास्यामि आर्य !’’ इत्युक्तं मया ।
स्मितवदन: स: अवदत् - ‘‘भवतु, तथैव अस्तु’’ इति ।
पुन: कदाचित् तेन उक्तं - ‘‘पश्य, मातापितृभ्यां यदि ऋणं क्रियेत, तर्हि तत्प्रतिदाने क्लेश: स्यात् । अन्त्यकाले सुखेन भोजनमपि कर्तंु न शक्येत । यथेष्टं धनं दत्त्वा अनुकूलवातयुते वृद्धाश्रमे मातापितरौ स्थापयित्वा ‘मम पितरौ सुखेन स्त:’ इति चिन्तयन्त: विदेशे विद्यमाना: पुत्रा: गर्वम् अनुभवन्ति । वत्स ! जीवितं यदि एतावन्मात्रं, तर्हि पुत्रपौत्रादीनां निमित्तम् इयान् क्लेश: कुत: अनुभोक्तव्य: ?’’
किमपि वदन्नस्ति गाम्भीर्येण इति चिन्तितं मया । ‘‘भवतु, भवता एतत्सर्वं न अवगम्येत’’ इति वदता तेन तानि वचनानि उपसंहृतानि ।
सुखेन कालं यापयत: तरुणान् दृष्ट्वा आर्य: व्यथाम् अनुभवति स्म । ‘‘अध्ययनकाले न्यूनातिन्यूनं दश घण्टा: यावत् अधीतं चेत् अग्रे उत्तम: उद्योग: भूरि वेतनञ्च प्राप्येत । आजीवनं विना क्लेशं जीवितुं शक्यम् । अध्ययनकाले यदि सुखेन कालयापनं क्रियेत, तर्हि आजीवनं पञ्चदशाधिकघण्टाश्रमेण अपि सुखजीवनम् उदरम्भरणञ्च दूरापास्तमेव भवेत् । किम् अभिप्रैति भवान् ?’’ इति अपृच्छत् स: कदाचित् ।
‘मम पितामह: इव एव भाषते अयम्’ इति चिन्तितं मया ।
पुन: कदाचित् तस्य गृहं गत: अहं यदा तत: प्रस्थातुम् उद्युक्त: तदा तेनोक्तं - ‘‘किञ्चित् तिष्ठ’’ इति । कपााटिकात: जङ्गमदूरवाणीं स्वीकृत्य मद्धस्ते निधाय - ‘‘एतस्या: उपयोग: क्रियताम् । भवान् एव अस्या: स्वामी इत: परम्’’ इति उक्तवान् ।
अस्माकं गृहस्य आर्थिकपरिस्थिति: तथा समीचीना नासीत् । सर्वाणि मम मित्राणि जङ्गमदूरवाणीद्वारा घण्टा: यावत् गृहजनै: सह भाषन्ते स्म । तस्या: अभाव: मया व्यक्तमेव अनुभूयते स्म । आपत्काले अपेक्षितं स्यादिति मया मित्रस्य दूरभाषासङ्ख्या गृहे प्रदत्ता आसीत् ।
‘‘मत्सविधे जङ्गमदूरवाणीद्वयं वर्तते । एकस्या: दूरवाण्या: उपयोगं भवान् करोतु’’ इति उक्तवान् स: ।
अहं सङ्कोचेन - ‘‘आर्य ! किमर्थं मह्यं दूरवाणी ? मास्तु’’ इति उक्तवान् ।
‘‘भवता नापेक्षितं स्यात् । मह्यं भवान् अपेक्षित: । मम यदा इच्छा तदा भवता सह सम्भाषणं कर्तंु शक्येत नन्ाु इत: ?’’ इति उक्तवान् स: प्रीत्या ।
जङ्गमदूरवाणी प्राप्ता इति अहं नितरां सन्तुष्ट: ।
‘‘वृद्ध: बहुसमीचीन: इति भाति । तस्य पुत्री पौत्री वा विवाहयोग्या स्यात् ! जागरूको भव’’ इति मित्रै: सविनोदम्   उक्तम् ।
किन्तु यदा परीक्षादिनानि आसन्नानि तदा अहं किञ्चिदिव   भीत: । ‘आर्य: दूरवाणीं कृत्वा गृहं प्रति आगच्छ इति यदि कथयेत् तर्हि किं वा करवाणि ?’ इति चिन्तितं मया ।
मम चिन्ता अकारणा न । कदाचित् पूर्वं यदा मया एकाग्रचित्ततया अधीयमानम् आसीत्, तदा दूरवाणीरव: श्रुत: । ‘‘किम् आर्य ?’’ इति सखेदमेव पृष्टं मया ।
‘‘सुष्ठु प्रचलति खलु अध्ययनम् ?’’ इति पृष्टं तेन । तावदेव सम्भाषणं प्रवृत्तं तस्मिन्  दिने ।
पुन: कदाचित् दूरवाणीं कृत्वा ‘गृहं प्रति आगच्छ’ इति अकथयत् स: । किमपि कार्यं स्यादिति मया तत्र गतं चेत् न कोऽपि विशेष: तत्र । द्वित्राणि वाक्यानि उक्त्वा फलानि दत्त्वा अप्रेषयत्   स: ।
‘अधुना तु वार्षिकपरीक्षा आसन्ना अस्ति । दूरवाणी वर्तते चेत् वृथा क्लेश: । दूरवाणी वर्तते चेत् सम्भाषणं करणीयमेव आपतेत् । सम्भाषणं यदि क्रियेत तर्हि एकाग्रचित्तता नश्येत्’ इति विचिन्त्य कदाचित् तस्य गृहं गतेन मया स: उक्त: - ‘‘आर्य ! परीक्षार्थम् एक: एव मास: अवशिष्ट: । समय: वर्तते चेत् अहमेव आगमिष्यामि । दूरवाणीं मा करोतु’’ इति ।
‘‘अस्तु, अस्तु’’ इत्युक्तं तेन सखेदम् ।
‘‘प्रकोष्ठात् कियद्दूरे अस्ति विद्यालय: ?’’ इति विचारितं तेन ।
‘‘यानं वर्तते चेत् वरं खलु ? कियत् भवति बैकयानस्य मूल्यम्’’ इत्यपि विचार्य - ‘‘सम्यग् अधीयताम्’’ इति उक्तवान्   स: ।
‘‘सम्यग् अधीत्य भवत्पितामहस्य आशां पूरय । विश्वेश्वरय्य-सदृश: तन्त्रज्ञ: भव’’ इति आशीर्वाद: अपि तेन कृत: । ‘पुन: दूरवाणीं कृत्वा यदि आह्वयेत् तर्हि गन्तव्यं भवेत्’ इति विचिन्त्य अहं तेन दत्तां दूरवाणीं तत्रैव निधाय आगतवान्, विस्मृतवान् इव  व्यवहरन् !
परीक्षा सुसम्पन्ना । निरीक्षाम् अतिरिच्य परीक्षायां बहु-समीचीनतया उत्तरितवान् आसम् । तन्त्रज्ञविद्यालयप्रवेश: अधुना अत्यन्तं सरल: स्यात् इति चिन्तयन् नितरां सन्तुष्ट: अभवम् । आर्यस्य दर्शनम् अकृतवत: मम मासद्वयम् अतीतम् आसीत् । तस्य दर्शनं प्राप्य परीक्षाविषये अवश्यं वक्तव्यम् इति अभासत । अग्रिमं मेलनं यदा भवेत् तदा अवश्यं भवद्गृहम् आगमिष्यामि इति तेन उक्तम् आसीत् । मम गृहं प्रति स: नेतव्य: इति चिन्तितं मया ।
मासद्वयं मम अनागमनं दृष्ट्वा स: अतीव खिन्न: स्यादिति मत्वा परीक्षासमाप्तिदिने सायङ्काले एव तद्गृहं प्रति अहं गतवान् । तत्र गृहं कीलितं दृश्यते !! स: तु कदापि सायङ्कालसमये कुत्रापि न गच्छति । नगरे एव वर्तते उत नेति विचारयितुं पार्श्वगृहं गत्वा पृष्टं मया । तद्गृहस्य गृहिणी द्वारम् उद्घाटितवती । ऐदम्प्राथम्येन तया सह भाषितं मया । ‘‘किं भो: ! कुत्र गतवान् आसीत् भवान् एतावन्ति दिनानि ? स: भवद्विषये बहु विचारयति स्म ...’’ इति उक्तवती सा ।
‘‘मम परीक्षा: प्रवर्तन्ते स्म । अत: न आगतम् । आर्य: किं ग्रामं गत: ?’’ इति पृष्टं मया कातरतया ।
‘‘न ग्रामम्, अपि तु परलोकं गत:  ! स: तु दिवङ्गत: । विंशति: दिनानि अतीतानि’’ इत्युक्तं तया ।
मया पूर्वापरं न ज्ञातम् । ‘‘भवते दूरवाणी करणीया इति तेन बहुधा चिन्तितम् । किन्तु सा दूरवाणी भवता अत्रैव त्यक्त्वा गतम् आसीत् । भावन् एव बहुधा स्मर्यते स्म तेन । वयमेव तं चिकित्सालयं नीत्वा तत्पुत्रं सूचितवन्त: । अनन्तरं स: दिवङ्गत: इति ज्ञातम्’’ इत्युक्तं तया ।
विद्युदाघातं प्राप्तवान् इव अहं स्तब्ध: । सा एव -  ‘‘समाश्वसिहि । किं वा कर्तंु शक्यम् ? तस्य आयु: तावान् एव आसीत् । इदं सर्वम् अनिवार्यम्’’ इति सान्त्वनवचनानि उक्तवती ।
‘‘पुत्र: स्नुषा च अस्मिन् नगरे मल्लेश्वरे वसत: । उभौ अपि  तन्त्रज्ञौ । आर्य: ताभ्यां सहैव वसति स्म । किन्तु पुत्र: स्नुषा च सर्वदा कार्यालये एव भवत: स्म । तौ पौत्रं सवसतिकविद्यालये योजित-वन्तौ । गृहे आर्य: एक: एव । ‘य: कोऽपि आगच्छेत् चेत् द्वारं न उद्घाटनीयम्’ ‘कुत्रापि नैव गन्तव्यम्’ इत्यादिभि: आदेशवचनै: प्राय: स: खिन्न: । भवता अपि दृष्टं स्यात् एव खलु - एक: एव स: गृहे कदापि न भवति स्म । किञ्चित्कालं वा बहि: अटित्वा आगम्येत चेदेव तस्य मन: समाहितं तिष्ठति स्म । कार्यार्थं गमनावसरे पुत्र: स्नुषा च गृहं बहिर्भागत: कीलयित्वा गच्छत: स्म प्राय: । एषु दिनेषु बेङ्गलूरुनगरे एकाकिनां वृद्धानां मारणं, गृहे स्थिताया: सम्पद: चौर्यं च बहुधा जायमानं लक्ष्यते । ताभ्यां कृतमपि एकया दृष्ट्या   युक्तमेव । किन्तु आर्य: प्राचीनकालीन: । ‘मया किमपि न ज्ञायते, वृद्धोऽहम्’ इति धिया ताभ्याम् एवं गृहबन्धनं कृतमिति मत्वा स: कुपित: स्यात् इति मन्ये । स: तद्गृहं परित्यज्य अत्र आगत: इति भाति । स: किं भवत: बन्धु: ? भवति अत्यन्तं स्निह्यति स्म स: । तीव्रे ज्वरतापे सत्यपि भवन्नाम एव जपति स्म स: । ‘किम् आगतवान् स: ?’ इति बहुधा विचारयति स्म’’ इति उक्तवती सा गृहिणी ।
तस्या: एकैकमपि वचनं मयि महतीं वेदनाम् अजनयत् । तीव्र: आघात: मया अनुभूत: । मया महान् दोष: आचरित: आसीत् ।
किञ्चिदनन्तरम् - ‘‘एषोऽहं साधयामि’’ इति उक्त्वा मया यदा प्रस्थितं तदा सा किमपि स्मृतवती इव ‘किञ्चित् तिष्ठ’ इति उक्त्वा अन्त: गत्वा किञ्चन पिहितपत्रम् आनीय दत्तवती ।
‘‘मया अन्यत्र यदा गम्येत, तदानीं समीर: अत्र आगच्छेत् । तदा इदं तस्मै दीयताम् इति आर्येण उक्तम् आसीत्’’ इति उक्तवती सा । यन्त्रवत् तत्पत्रं स्वीकृत्य तत: प्रस्थितं मया ।
प्रकोष्ठे शून्यम् आवृतमिव भाति स्म । इत: षड्भ्य: मासेभ्य: पूर्वं पितामहस्य दिवङ्गते: अनन्तरम् एवमेव अनुभूति: आसीत् । तादृशी एव खिन्नता पुनरपि आवृता अभवत् । भोजनं न रोचते स्म । शय्यायां यदा पार्श्वपरिवर्तनं कृतं, तदा प्रात: आनीतं पिहितपत्रं स्मृतम् । किं स्यात् अन्त: इति कुतूहलेन तत् मया उद्घाटितम् ।
अहो, आश्चर्यम् ! तत्र आसीत् षष्टिसहस्रस्य रूप्यकाणां धनदेयकम् !! तदपि मन्नाम्ना !!! तेन सह आर्यस्य हस्ताङ्कनसहितं लघुपत्रम् अपि । तत्र लिखितम् आसीत् - ‘‘अनेन धनेन यानं  क्रीणीहि । तेनैव तव ग्रामं गच्छाव’’ इति ।
‘प्रकोष्ठात् विद्यालयं प्रति गन्तुं महान् समय: अपेक्षित: इति कथयति भवान् । बैक्यानस्य कियत् मूल्यं भवेत् ?’ इति तेन पृष्ट: प्रश्न: स्मृत: मया । आर्यस्य अभिमानेन मम नेत्रे अश्रुपूर्णे जाते । किन्तु यदा अहं तत् धनं प्राप्तुं वित्तकोषं गत:, तदा तत्र आश्चर्यं जातम् । तत्र तस्य व्यवहार: स्थगित: आसीत् ।
‘इदं धनदेयकम् अधुना किं कुर्याम् ? तत्पुत्र: कीदृश: इति तु न ज्ञायते । भवते किमर्थं मत्पित्रा एतावत् धनं प्रदत्तम् ? इति स: बहु विचारयेत् चेत् किम् उत्तरं वक्तव्यम् ? अथवा वृथा चिन्तनेन   किम् ? तत्पुत्रेण सह सम्भाषणम् एव वरम्’ इति विचिन्त्य अहं तदीयं सङ्केतं स्वीकृत्य तद्गृहं गत: ।
तत् किञ्चिन विशालं महद्गृहम् । यदा आकारिका मया नुन्ना तदा कश्चित् आजानुबाहु: प्ाुरुष: आगत्य द्वारम् उद्घाटितवान् । आर्यस्य प्रतिरूपी स: । मुखे गम्भीरभाव: । ‘किम् ?’ इति प्रश्नार्थकमुखभावेन दृष्टं तेन ।
‘‘अहं समीर:’’ इत्युक्तं मया ।
‘‘अहो, भवान् एव किं समीरनामा ? मम पितु: आत्मीयं मित्रं खलु भवान् !! आगम्यताम्, आगम्यताम्’’ इति उक्त्वा स: मां सादरम् अन्त: आहूतवान् । वाचि आत्मीयता आसीत् । उत्साहेन भाषते स्म स: ।
‘‘पित्रा भवद्विषये उक्तम् आसीत् । भवत्सङ्केत: यदि ज्ञात: स्यात् तर्हि अहमेव आगत्य मिलेयम्’’ इति उक्तं तेन । आङ्ग्लभाषया एव भाषते स्म स: ।
मम कोषे विद्यमानं धनदेयकं तस्मै दत्तं मया । ‘‘किमिदम् ?’’ इति उक्त्वा देयादेशपत्रं परिशील्य - ‘‘सत्यम् । व्यवहार: मयैव स्थगितीकृत: । अन्यत् धनदेयकं दास्यामि’’ इति उक्त्वा स: अन्यत् धनदेयकं लेखितुम् उद्युक्त: ।
‘‘महोदय, धनदेयकं मास्तु । मया न पृष्टं तत् । आर्येण अपि किमपि दातव्यं न वर्तते’’ इति उक्तं मया ।
‘‘विवरणं न अपेक्षितम् । पित्रा भवते दत्तम् । अत: मया भवते दीयमानम् अस्ति’’ इति उक्त्वा धनदेयकं मद्धस्ते निक्षिप्तं तेन ।
‘‘अन्तिमेषु दिनेषु तस्य एकाकिता भवता निवारिता । पौत्रेण यादृशी प्रीति: दर्श्येत तादृशी प्रीति: भवता प्रदर्शिता । तदर्थं यावन्त: अपि धन्यवादा: अर्प्येरन् चेदपि तत् अपर्याप्तं भवेत् । बान्धव: इव तस्मै साहचर्यं प्रदत्तं भवता । भवत: सहवासस्तु तेन इष्यते स्म खलु ? तदेव महान्तं सन्तोषं जनयति अस्मासु । भवन्तं बहुधा स्मरति स्म स:’’ इति उक्त्वा किञ्चिदनन्तरं स: मन्दस्वरेण पृष्टवान् - ‘‘मम विषये किं बहुधा खिन्न: आसीत् स: ?’’ इति ।
‘‘नैव महोदय । भवान् अस्मिन्नेव नगरे वसति इत्यंश: अपि तेन कदापि न उक्त: आसीत्’’ इति उत्तरितं मया ।
एतत् श्रुतवत: तस्य मुखे वेदना अवलोकिता मया ।
‘‘किं कर्तंु शक्येत ? अन्तपर्यन्तमपि तेन समञ्जनं नैव कृतम् । मत्प्ाुत्रस्तु पितामहेन सहैव स्थातुम् इच्छति स्म । स तु तत्कालीन-वर्णनं कुर्वन् कालं यापयति स्म । तत्सर्वं श्रुत्वा अस्मत्पुत्र: नश्येत् इति मत्वा वयं तं सवसतिकविद्यालये योजितवन्तौ । तदर्थं कुपित: पिता स्वकोपं कदापि न त्यक्तवान् । तदानीम् एतद्गृहं त्यक्त्वा गत: स: पुन: न प्रत्यागत: एव’’ इत्युक्तं तेन ।
‘‘सर्वासु अनुकूलतासु सतीष्वपि स: अत्र न उषितवान्’’ इति कथयत: तस्य वचसि महान् खेद: लक्ष्यते स्म । अपराधिभावना सम्यगेव अभिव्यज्यते स्म तत: ।
‘‘भवता अग्रे किम् अध्येतव्यम् इति निर्णीतम् ?’’ इति पृष्टवान् स: ।
‘‘अहं तन्त्रज्ञ: भवेयम् इति मम पितामहोऽपि कामयते स्म । अहमपि तन्त्रज्ञानविद्याम् एव अध्येतुम् इच्छामि’’ इति उक्तं मया ।
‘‘पितु: अपि अयमेव अभिप्राय: आसीत् । तस्य वचनम् अहम् आदेशवत् पालयामि । भवत: अग्रिमाध्ययनस्य समग्रमपि व्ययम् अहमेव निर्वक्ष्यामि’’ इत्युक्तं तेन ।
‘‘महोदय !’’.... इति मम वचनम् अर्धे एव स्थगयन् - ‘‘स: भवत्पितामह: एव जात: आसीत् । अन्त्यकाले तस्य एकाकिता भवता परिहृता । तदर्थं यावत्य: कृतज्ञता: अर्पिता: चेदपि अपर्याप्तं भवेत्’’ इति वदन् स: भावपूर्ण: जात: ।
यदा मया प्रस्थातुम् उद्यतं तावता स: - ‘‘किञ्चित् तिष्ठ’’ इति उक्त्वा प्रत्यागत्य - ‘‘परीक्षा: सर्वा: समाप्ता: नन्ाु ? आगामिमासे एव खलु फलितांश: प्रकटित: भवेत् ? तदा सामान्यप्रवेशपरीक्षा लेखनीया खलु ? यदि अङ्काधारेण स्थानं न प्राप्येत, तर्हि ‘पेमेण्ट्-सीट्’द्वारा एव वा भवान् प्रवेशं प्राप्न्ाुयात् । भवत: स्वभावं जानामि अहम् । पुन: पुन: अत्र न आगच्छेत् भवान् इत्यपि जानामि । एतत् स्वीकरोतु । पुन: किमपि अपेक्षितं चेत् निस्सङ्कोचं पृच्छतु । एतत् धनं पितु: एव । अत्र मदीयमिति किमपि नास्ति’’ इति वदन् पुनरेकं धनदेयकं प्रदत्तवान् ।
महदाश्चर्यम् अनुभूतं मया । आर्यस्य अन्त:करणं स्मरत: मम नेत्रे अश्रुपूर्णे जाते । स: - ‘‘पितु: आशा पूरणीया खलु ?’’ इति वदन् ‘‘किञ्चित् फलरसम् आनयामि, उपविश्यताम्’’ इति माम् उपावेश्य अन्त: गतवान् ।
किङ्कर्तव्यतामूढ: अहं तथैव उपविष्ट: । पितु: विषये पुत्र: एतावान् सन्निकृष्ट: स्यात् इति तु कल्पनातीतम् आसीत् ।

·        

No comments: