Swaagatam

स्वागतम्

Saturday, October 22, 2011

कथा

आर्य:
 (कन्नडमूलम् - सत्यबोध:)
मार्गे गच्छता वृद्धेन सह किमर्थम् अहम् एतावता प्रमाणेन सम्बद्धो जात: इति नावगच्छामि । स: न मम परिचित:, न वा बन्धुः । मम स्वयंकृतापराध: अयम् । मयैव तस्य संसर्ग: कृत: ! तद्दिने एतावत् प्रवृत्तम् -
सायङ्काले ‘ब्यूगल्राक्’नामके उद्याने युवकलाविदां सङ्गीत-कार्यक्रम: चिरात् आयोजित: आसीत् । महाविद्यालयीया: कक्ष्या: समाप्य मित्रै: सह अहं तत्र गत: । गणेशभवनस्थानके लोकयानात् अवतीर्य मित्रै: मार्गक्रमणं कृतम् । मयापि तथा करणीयमिति यावत् चिन्तितं, तावता समीपे कश्चन उन्नत: वृद्ध: मया दृष्ट: । समीकृतं श्वेतवर्णीयम् ऊरुकं, समीकृतं श्वेतवर्णीयं युतकञ्च तेन धृतम् आसीत् । यानानां सम्मर्दवशात् मार्गक्रमणे तेन अन्ाुभूयमान: क्लेश: मया अवलोकित: । अन्ाुस्यूततया लोकयानानि अटन्ति महता वेगेन । निरन्तरम् अव्याहततया यानानां सञ्चार: । मत्सदृशा: युवान: एव मार्गक्रमणे क्लेशम् अन्ाुभवन्ति । एवं स्थिते का वा कथा अस्य वृद्धस्य ! तस्य एतां स्थितिम् अवलोक्य अपि तथैव त्यक्त्वा गमनंं मम मन: न अङ्ग्यकरोत् ।
‘‘आगच्छतु आर्य !’’ इति वदन् अहं तेन सह मार्गक्रमणम् अकरवं विरलं यानसम्मर्दं दृष्ट्वा ।
कृतज्ञातपूर्वकं मां दृष्ट्वा ‘‘धन्यवाद:’’ इत्युक्तं तेन ।
तत: अहं वेगेन गत्वा मित्राणां गणं प्रविष्ट: ।
‘‘किमर्थम् इयान् विलम्ब: ?’’ - मित्रेण राघवेन्द्रेण पृष्टम् ।
‘‘कश्चन वृद्ध: मार्गं क्रमितुं कष्टम् अनुभवन् अवर्तत । तं मार्गं क्रामयित्वा आगतं मया । अत: विलम्ब:’’ इति प्रत्युत्तरं दत्तं मया ।
‘‘किमर्थम् एते वृद्धा: एकाकिन: एवम् अटन्ति इति न    ज्ञायते !!’’ इति उक्तवान् अपर: सुहृत् नायर् ।
‘‘स: भवत: पितामह: स्यात् इति अहं चिन्तितवान् आसम्’’ इति  विनोदेन उक्तवान् अन्य: सुहृत् आचार्य: ।
स: यत् ‘भवत: पितामह:’ इति पदं प्रायुङ्क्त तेन अहं भावुक: संवृत्त: । मम पितामह: षड्भ्य: मासेभ्य: पूर्वं दिवङ्गत: । स: मां बहु इच्छति स्म । यदा अहं ग्रामं गच्छेयं, तदा स: मां पार्श्वे उपावेश्य - ‘कथं प्रचलति अध्ययनम् ?’ इति विचारयति स्म । ‘किं किं  पाठ्यते ?’ इति पृच्छति स्म । ‘सम्यग् अधीष्व’ इति अभिमानेन कथयति स्म । स: यदा अस्वस्थ: आसीत्, तदा मम परीक्षाकाल: । तस्य स्थिति: गम्भीर: एव आसीत् । पिता एतं विषयं मां सूचयितुम् इष्टवान् । पितामह: तु - ‘तस्य सूचनं मास्तु । स: भीत: भवेत् । तस्य तु अयं परीक्षाकाल: । अहं स्वस्थ: एव अस्मि’ इति उक्तवान् इति श्रुतम् । किन्तु तदैव स: दिवङ्गत: ।
उद्याने महान् जनसम्मर्द: दृष्ट: । भावगीतानां मध्ाुरं गानम् आह्लादम् अजनयत् । गीतवत्य: सर्वा: महाविद्यालये पठन्त्य: बालिका: । ऊरुकधारिण्य: बालिका: एव सर्वदा दृष्टवत: नेत्रयो: भारतीयवेषधारिण्य: इमा: गायिका: अरोचन्त । अन्येषु दिनेषु चेत् आरात्रि तत् सङ्गीतं, बेलूरुशिलाबालिकासदृशं तासां सुमनोहरं रूपं, भावभङ्गी च मन: आवृणुयात् । किन्तु तस्यां रात्रौ मया स: वृद्ध: एव प्ाुन: प्ाुन: स्मर्यते स्म । अकस्मात् दृष्ट: स: वृद्ध: पितामहं स्मारितवान् आसीत् । पितामह: एव पार्श्वे उपविश्य शिर: आमृशन्निव, ‘वत्स ! सम्यग् अधीयताम्’ इति कथयन्निव दृश्यते स्म । तद्विषयिण्य: एव विविधा: कल्पना: आरात्रि ।
मया बहु अध्येतव्यं, प्रसिद्धेन तन्त्रज्ञेन भवितव्यम् इति पितामह: इच्छति स्म । अस्माकं बन्ध्ाुषु तन्त्रज्ञ: कोऽपि न आसीत् । ‘पितामह ! निरीक्ष्यताम् । अहं प्रसिद्ध: तन्त्रज्ञ: भविष्यामि’ इति शपथं कुर्वन्निव अहं कथयामि स्म । पितामह: आश्चर्यप्ाूर्णाभ्यां नेत्राभ्यां पश्यन् अभिमानेन ‘साध्ाु, साध्ाु’ इति कथयति स्म । सर् एम् विश्वेश्वरय्यवर्य: तस्य दृष्ट्या देवता-स्वरूपायते । तस्य किञ्चन महत् भावचित्रं प्रवेशद्वारस्य अन्तर्भागे स्थापितम् आसीत् । भावप्ाूर्णतया तत् भावचित्रं पश्यन् पितामह: - ‘महान्त: एतादृशा:’ इति कथयति स्म । इतोऽपि वर्षद्वयं यावत् स: यदि जीवित: अभविष्यत् तर्हि मम तान्त्रिकमहाविद्यालयप्रवेशं दृष्ट्वा महान्तं सन्तोषम् अन्वभविष्यत् ।
पितामहं स्मरत: मम नेत्रे अश्रुप्ाूर्णे जाते । विषादपूर्णं मन: खिन्नतया आवृतम् अभवत् ।
एवमेव दश दिनानि अतीतानि । कदाचित् सायङ्काले मार्गे गमनावसरे अकस्मात् जनसम्मर्दे मन्दं चलन् स: वृद्ध: मया अवलोकित: । आत्मीयं जनं दृष्टवान् इव अहं तं दृष्ट्वा सन्तोषेण तस्य समीपं गत्वा - ‘‘आर्य ! अपि कुशलम् ?’’ इति अपृच्छम् । समीकृतै: वस्त्रै: तस्य महत्ता प्रतीयते स्म । मम अभिज्ञानं प्राप्तवान् स: आश्चर्येण - ‘‘भवान् कथम् अत्र ?’’ इति पृष्टवान् ।
‘‘भवत: गृहं क्व वर्तते आर्य ? एकाकितया क्व प्रस्थितं    भवता ?’’ इति पृष्टं मया ।
‘‘फलानि अपेक्षितानि आसन् । अत: अत्र आगतम् ।’’
‘‘जनसम्मर्दयुते अस्मिन् समये भवता किमर्थम् अयं श्रम: उह्येत ? पश्यतु पादमार्गम्’’ इति दर्शितं मया ।
‘‘इदमेव अभ्यस्तम्’’ इति कथयन् स्मितवदन: स: ‘‘क्व भवद्गृहम् ?’’ इति  पृष्टवान् ।
‘‘मम गृहं गौरीपुरे वर्तते । अहं छात्रावासे निवसामि’’ इत्युक्तं मया ।
एवमेव तदा तदा अनिरीक्षितमेलनानि सम्भवन्ति स्म । आर्य: प्रतिवारमपि समीकृतै: विभिन्नै: वस्त्रै: शोभते स्म । अस्मिन्नपि वयसि कार्यालयं प्रस्थितवान् उन्नताधिकारी इव समीकृतै: शुभ्रवसनै: स: शोभते स्म । प्राय: स: आरम्भकालादपि अन्ाु-शासनपालक: इव प्रतिभाति स्म । कश्चन सामान्य: स्कन्धस्यूत: तस्य स्कन्धे सर्वदा भवति स्म । स: तस्मिन् विद्यमानं सेवफलं, नारङ्गं, कदलीफलं वा मह्यं प्रददाति स्म ।
‘‘किमर्थम् इदम् ?’’ इति पृष्टे, ‘‘फलानि सर्वेभ्य: दत्त्वा खादनीयानि’’ इति कथयति स्म ।
‘कदाचित् गृहम् आगच्छ’ इति आह्वयति स्म स: । वृद्धा: बहु जल्पन्ति इति मत्वा - ‘अस्तु आर्य ! पुन: कदाचित् आगमिष्यामि’ इति कथयामि स्म । एतादृशानि मेलनानि तदा तदा सम्भवन्ति स्म ।
द्वित्रेषु मासेषु दीर्घकालात् परिचित: इव जातस्य तस्य विषये कश्चन आप्तताभाव: मयि उत्पन्न: । स: जगत: विषये, बान्धवानां विषये च भाषते स्म । किन्तु यदा वैयक्तिकविषयप्रस्ताव: भवेत् तदा स: मौनी भवति स्म । कदाचित् स: एतादृशविषयप्रस्ताव-कारणात् गम्भीर: भवति स्म । तदनन्तरं मया तस्य वैयक्तिकविषये कदापि न पृष्टम् । स च विषय: मत्सम्बद्धोऽपि न खलु ?
प्ाुन: पञ्चदश दिनानि अतीतानि । तावत्सु दिनेषु कदाचिदपि तस्य दर्शनं न जातम् । केवलं मार्गे जात: परिचय: एतावन्तम् आतङ्कं जनयेत् इति मम कल्पना अपि न आसीत् । ‘वृद्धस्य तस्य गृहं कुत्र इति वा यदि ज्ञातं स्यात् तर्हि तत्र गत्वा विचारयितुम् अशक्ष्यम् । यदा तेन गृहं प्रति आहूतं, तदैव गन्तव्यम् आसीत्’ इति पश्चात्ताप: माम् अबाधत । कदाचित् स: दृष्टिपथम् आगच्छेत् इति तस्यां वीथ्यां मया द्वित्रवारं सञ्चार: कृत: । लोकयानेन गमनावसरेऽपि तस्यां वीथ्यां मम दृष्टिपात: भवति स्म ।
एवमेव काल: अतीत: । पुन: कदाचित् तस्यामेव वीथ्यां यथाप्ाूर्वं हस्तेन कञ्चन लघुस्यूतं गृहीत्वा गच्छन् स: वृद्ध: मया अवलोकित: ! ‘अहो ! लब्ध: !’ इति चिन्तयता मया काचित् मनस्तृप्ति: अन्ाुभूता । अहं किञ्चिदिव कुपितोऽपि । ‘‘किम् आर्य ! एतावन्ति दिनानि कुत्र गतम् आसीत् भवता ?’’ इति आक्षेप: कृत: मया ।
आश्चर्येण दृष्टं तेन । ‘एवं न वक्तव्यम् आसीत्’ इति तदनु अवगत्य अहं लज्जित: अभवम् ।
‘‘पौत्र: द्रष्टव्य: इति अभासत । अत: गतवान् आसम्’’ इति उक्तं तेन ।
अन्ाुक्षणमेण अहं पृष्टवान् - ‘‘किम् आर्य ! भवत: पुत्र: पौत्र: वा अस्मिन्नेव नगरे सन्ति ? क्व सन्ति ते ? भवान् किमर्थम् एकाकी वसति ?’’ इति ।
ते प्रश्ना: तस्मै न अरोचन्त । स: यदा मौनी संवृत्त: तदा मम दोष: अवगत: मया ।
पुन: कदाचित् रात्रौ सप्तवादनसमये मार्गे एक: एव गच्छन् स: दृष्ट: मया । ‘रात्रौ एतस्मिन् काले यदि विद्युदभाव: सम्भवेत्, तर्हि महान् क्लेश: । पादमार्गोऽपि समीचीन: न भवति । युवान: वयमेव क्लेशम् अनुभवाम: । अयं तु वृद्ध: अस्मिन् काले एवम् अटति !’
‘‘किम् आर्य ! अस्मिन् समये वायुसञ्चारार्थं प्रस्थितं किम् ?’’ - मया पृष्टम् ।
‘‘प्रात:काले विस्मृतम् । गुलिका: समाप्ता: आसन्’’ - स: अवदत् ।
‘‘एतदर्थं किं भवता एव अटनीयम् ?’’ इति प्ाुन: पृष्टं मया ।
तेन उत्तरं किमपि न दत्तम् । अन्धकार: सर्वत्र प्रसृत: आसीत् तावता । ‘गृहपर्यन्तम् आगच्छ’ इति प्रार्थना कृता तेन । ‘अधुना कार्यम् अस्ति, पुन: कदाचित् आगमिष्यामि’ इति वक्तुम् अनिच्छन् अहं तेन सह तस्य गृहं प्रति प्रस्थित: । 
वृद्धोऽपि स: दृढतया एव पदानि आदधान: अग्रे अगच्छत् । तत: अग्रे षष्ठे उपमार्गे दक्षिणत: विद्यमानस्य सवृतिकस्य महा-गृहस्य पार्श्वे विद्यमानं लघुगृहमेव आर्यस्य आवासस्थानम् ।
‘‘अत्र भवान् एक: एव निवसति किम् ?’’ - मया पृष्टम् ।
‘‘न अहम् एकाकी । तत्र पश्य’’ इति उक्त्वा भित्तौ लम्बमानं किञ्चन भावचित्रं तेन दर्शितम् ।
तत्र आसीत् कस्याश्चित् अल्पवयस्काया: महिलाया: चित्रम् । तस्या: मुखे मन्दहास: विलसति स्म । ललाटे बृहदाकारं कुङ्कुमं विराजते स्म ।
‘‘विवाहात् परं केषाञ्चित् दिनानाम् अनन्तरं स्वीकृतं मम पत्न्या: भावचित्रम् इदम्’’ इति माम् उक्त्वा ‘‘सुलक्षणोपेता खलु   सा !’’ इति उक्तं तेन स्वगतम् इव । तत् भावचित्रमेव निर्निमेष-दृष्ट्या पश्यन् स: क्षणं विचलितचित्त: इव अभासत ।
‘अनेन सह सम्भाषणमेव क्लेशं जनयति । कदाचित् अयं लीलया विषयं विस्मारयति । कदाचित् गम्भीर: भवति । कदाचित् भावपूर्णं भवति तदीयं मन: ।’
‘एक: एव कथं वा पाकादिकं कृत्वा भुङ्क्ते भवान् !’ इति सामान्यं प्रश्नं प्रष्टुमपि सङ्कोच:, काचित् विलक्षणा भीति: च । पाकशालायां काचित् अनिलचुल्ली वर्तते । कतिचन पात्राणि  दृश्यन्ते । कोणे पाथेयपात्रमपि दृश्यते । ‘कश्चित् बाह्य: जन: पाकं कृत्वा यच्छति उत बहिर्भागत: पाथेयपात्रद्वारा आहार: आनाय्यते ?’ इति मया न ज्ञातम् ।
‘‘एकाकिता किं भवति जामितां न जनयेत् ?’’ इति पृष्टं मया ।
तेन उक्तम् - ‘‘किं वा कर्तंु शक्यम् ? भवान् एव अत्र    तिष्ठतु ।’’
‘‘एकाकितया रात्रौ बहि: न अटनीयं भवता । मार्गेषु महान् यानसम्मर्द: भवति ।’’
‘‘गुलिका: समाप्ता: इति रात्रौ ज्ञायते । किं वा कर्तुं शक्यम् ?’’
‘‘गुलिकानाम् आवलीं मह्यं ददातु । सर्वा: गुलिका: आनीय स्थापयिष्यामि ।’’ 
‘‘चिन्ता मास्तु, अहमेव आनेष्यामि । मम विषये भवत: महान् आदर: य: दर्श्यमान: अस्ति तदर्थं धन्यवादा:’’ इत्युक्तं स्मयमानेन तेन ।
क्षणं विरम्य तेन पृष्टम् - ‘‘भवत: पिता किं करोति ?’’
‘‘मम पिता माध्यमिकविद्यालये अध्यापक: । सायङ्काले कस्मिंश्चित् आपणे गणनां लिखति अपि’’ इति उत्तरितं मया ।
‘‘तावान् श्रम: उह्यते चेत् किम् आरोग्यं न नश्येत् ?’’ इति चिन्ताकुलेन तेन पृष्टम् ।
‘‘भवता सम्यगेव अभिहितम् आर्य ! किन्तु मम पिता अस्माभि: निषिध्यमाने अपि गणनालेखनकार्यार्थं गच्छति प्रतिदिनम् ।’’
‘‘भवद्भि: निषिध्यमाने अपि ?....’’- आश्चर्येण पृष्टं तेन ।
‘‘मया तन्त्रज्ञविद्या (Engineering) अध्येतव्या इति कथयति स: । प्रवेशशुल्कत्वेन भूरि धनं खलु अपेक्षितम् इति कथयति    स: ।’’
एतत् श्रुत्वा आर्य: गम्भीर: जात: ।
‘‘मातापितरौ महता श्रमेण धनम् अर्जयित्वा अध्ययने साहाय्यम् आचरन्ति । किन्तु भवन्त: तन्त्रज्ञा: सन्त:  मातापितरौ उपेक्ष्य सुखेन जीवन्ति’’ इति सखेदं स्वाभिप्रायं प्रकटितवान् स: ।
‘‘नाहं तादृश:, आर्य !’’
‘‘भवान् तादृश: इति न मम अभिप्राय: । भवादृशा: तरुणा: प्राय: एवमेव व्यवहरन्ति । विदेशेषु छात्रा: स्वतन्त्रतया पठन्ति । माध्यमिकविद्यालये अध्ययनं समाप्य स्वातन्त्र्येण अर्जयन्त: पृथक् निवसन्तीति श्रुतं मया ।’’
‘‘सत्यम् उक्तं भवता ! तत्रत्या संस्कृति: विलक्षणा । माध्यमिकविद्यालयपर्यन्तमेव पोषकाणां दायित्वम् इति श्रूयते ।’’
‘‘किन्तु अस्माकं देशे पश्य । महाविद्यालयशिक्षणव्ययोऽपि पोषकैरेव उह्यते । समग्र: अपि आय: अपत्येभ्य: व्ययीक्रियते मातापितृभ्याम् । निवृत्तिसमये तयो: वित्तकोशीय: धनराशि: समाप्त: भवति’’ इति ।
किञ्चित्कालं मौनम् आश्रित्य तेन पुन: कथनम् अनुवर्तितम् - ‘‘धनं सर्वमपि व्ययितं भवेत् चेदपि गृहं विशालं स्यात् चेदपि पुत्रपौत्रादय: गृहे यदि न स्यु: तर्हि सर्वत्र रिक्तता अनुभूयते ननु ?’’
आर्य: बहु चिन्तयति इति अभासत । ‘‘आर्य ! अस्य गृहस्य भाटकं कियत् ?’’ इति पृष्टं मया ।
‘‘किमर्थम् ? किं भवता तत् दीयेत ?’’ इति प्रतिपृष्टं तेन ।
‘‘अध्ययनानन्तरं यदा समीचीन: उद्योग: प्राप्येत, तदा अहमेव दास्यामि आर्य !’’ इत्युक्तं मया ।
स्मितवदन: स: अवदत् - ‘‘भवतु, तथैव अस्तु’’ इति ।
पुन: कदाचित् तेन उक्तं - ‘‘पश्य, मातापितृभ्यां यदि ऋणं क्रियेत, तर्हि तत्प्रतिदाने क्लेश: स्यात् । अन्त्यकाले सुखेन भोजनमपि कर्तंु न शक्येत । यथेष्टं धनं दत्त्वा अनुकूलवातयुते वृद्धाश्रमे मातापितरौ स्थापयित्वा ‘मम पितरौ सुखेन स्त:’ इति चिन्तयन्त: विदेशे विद्यमाना: पुत्रा: गर्वम् अनुभवन्ति । वत्स ! जीवितं यदि एतावन्मात्रं, तर्हि पुत्रपौत्रादीनां निमित्तम् इयान् क्लेश: कुत: अनुभोक्तव्य: ?’’
किमपि वदन्नस्ति गाम्भीर्येण इति चिन्तितं मया । ‘‘भवतु, भवता एतत्सर्वं न अवगम्येत’’ इति वदता तेन तानि वचनानि उपसंहृतानि ।
सुखेन कालं यापयत: तरुणान् दृष्ट्वा आर्य: व्यथाम् अनुभवति स्म । ‘‘अध्ययनकाले न्यूनातिन्यूनं दश घण्टा: यावत् अधीतं चेत् अग्रे उत्तम: उद्योग: भूरि वेतनञ्च प्राप्येत । आजीवनं विना क्लेशं जीवितुं शक्यम् । अध्ययनकाले यदि सुखेन कालयापनं क्रियेत, तर्हि आजीवनं पञ्चदशाधिकघण्टाश्रमेण अपि सुखजीवनम् उदरम्भरणञ्च दूरापास्तमेव भवेत् । किम् अभिप्रैति भवान् ?’’ इति अपृच्छत् स: कदाचित् ।
‘मम पितामह: इव एव भाषते अयम्’ इति चिन्तितं मया ।
पुन: कदाचित् तस्य गृहं गत: अहं यदा तत: प्रस्थातुम् उद्युक्त: तदा तेनोक्तं - ‘‘किञ्चित् तिष्ठ’’ इति । कपााटिकात: जङ्गमदूरवाणीं स्वीकृत्य मद्धस्ते निधाय - ‘‘एतस्या: उपयोग: क्रियताम् । भवान् एव अस्या: स्वामी इत: परम्’’ इति उक्तवान् ।
अस्माकं गृहस्य आर्थिकपरिस्थिति: तथा समीचीना नासीत् । सर्वाणि मम मित्राणि जङ्गमदूरवाणीद्वारा घण्टा: यावत् गृहजनै: सह भाषन्ते स्म । तस्या: अभाव: मया व्यक्तमेव अनुभूयते स्म । आपत्काले अपेक्षितं स्यादिति मया मित्रस्य दूरभाषासङ्ख्या गृहे प्रदत्ता आसीत् ।
‘‘मत्सविधे जङ्गमदूरवाणीद्वयं वर्तते । एकस्या: दूरवाण्या: उपयोगं भवान् करोतु’’ इति उक्तवान् स: ।
अहं सङ्कोचेन - ‘‘आर्य ! किमर्थं मह्यं दूरवाणी ? मास्तु’’ इति उक्तवान् ।
‘‘भवता नापेक्षितं स्यात् । मह्यं भवान् अपेक्षित: । मम यदा इच्छा तदा भवता सह सम्भाषणं कर्तंु शक्येत नन्ाु इत: ?’’ इति उक्तवान् स: प्रीत्या ।
जङ्गमदूरवाणी प्राप्ता इति अहं नितरां सन्तुष्ट: ।
‘‘वृद्ध: बहुसमीचीन: इति भाति । तस्य पुत्री पौत्री वा विवाहयोग्या स्यात् ! जागरूको भव’’ इति मित्रै: सविनोदम्   उक्तम् ।
किन्तु यदा परीक्षादिनानि आसन्नानि तदा अहं किञ्चिदिव   भीत: । ‘आर्य: दूरवाणीं कृत्वा गृहं प्रति आगच्छ इति यदि कथयेत् तर्हि किं वा करवाणि ?’ इति चिन्तितं मया ।
मम चिन्ता अकारणा न । कदाचित् पूर्वं यदा मया एकाग्रचित्ततया अधीयमानम् आसीत्, तदा दूरवाणीरव: श्रुत: । ‘‘किम् आर्य ?’’ इति सखेदमेव पृष्टं मया ।
‘‘सुष्ठु प्रचलति खलु अध्ययनम् ?’’ इति पृष्टं तेन । तावदेव सम्भाषणं प्रवृत्तं तस्मिन्  दिने ।
पुन: कदाचित् दूरवाणीं कृत्वा ‘गृहं प्रति आगच्छ’ इति अकथयत् स: । किमपि कार्यं स्यादिति मया तत्र गतं चेत् न कोऽपि विशेष: तत्र । द्वित्राणि वाक्यानि उक्त्वा फलानि दत्त्वा अप्रेषयत्   स: ।
‘अधुना तु वार्षिकपरीक्षा आसन्ना अस्ति । दूरवाणी वर्तते चेत् वृथा क्लेश: । दूरवाणी वर्तते चेत् सम्भाषणं करणीयमेव आपतेत् । सम्भाषणं यदि क्रियेत तर्हि एकाग्रचित्तता नश्येत्’ इति विचिन्त्य कदाचित् तस्य गृहं गतेन मया स: उक्त: - ‘‘आर्य ! परीक्षार्थम् एक: एव मास: अवशिष्ट: । समय: वर्तते चेत् अहमेव आगमिष्यामि । दूरवाणीं मा करोतु’’ इति ।
‘‘अस्तु, अस्तु’’ इत्युक्तं तेन सखेदम् ।
‘‘प्रकोष्ठात् कियद्दूरे अस्ति विद्यालय: ?’’ इति विचारितं तेन ।
‘‘यानं वर्तते चेत् वरं खलु ? कियत् भवति बैकयानस्य मूल्यम्’’ इत्यपि विचार्य - ‘‘सम्यग् अधीयताम्’’ इति उक्तवान्   स: ।
‘‘सम्यग् अधीत्य भवत्पितामहस्य आशां पूरय । विश्वेश्वरय्य-सदृश: तन्त्रज्ञ: भव’’ इति आशीर्वाद: अपि तेन कृत: । ‘पुन: दूरवाणीं कृत्वा यदि आह्वयेत् तर्हि गन्तव्यं भवेत्’ इति विचिन्त्य अहं तेन दत्तां दूरवाणीं तत्रैव निधाय आगतवान्, विस्मृतवान् इव  व्यवहरन् !
परीक्षा सुसम्पन्ना । निरीक्षाम् अतिरिच्य परीक्षायां बहु-समीचीनतया उत्तरितवान् आसम् । तन्त्रज्ञविद्यालयप्रवेश: अधुना अत्यन्तं सरल: स्यात् इति चिन्तयन् नितरां सन्तुष्ट: अभवम् । आर्यस्य दर्शनम् अकृतवत: मम मासद्वयम् अतीतम् आसीत् । तस्य दर्शनं प्राप्य परीक्षाविषये अवश्यं वक्तव्यम् इति अभासत । अग्रिमं मेलनं यदा भवेत् तदा अवश्यं भवद्गृहम् आगमिष्यामि इति तेन उक्तम् आसीत् । मम गृहं प्रति स: नेतव्य: इति चिन्तितं मया ।
मासद्वयं मम अनागमनं दृष्ट्वा स: अतीव खिन्न: स्यादिति मत्वा परीक्षासमाप्तिदिने सायङ्काले एव तद्गृहं प्रति अहं गतवान् । तत्र गृहं कीलितं दृश्यते !! स: तु कदापि सायङ्कालसमये कुत्रापि न गच्छति । नगरे एव वर्तते उत नेति विचारयितुं पार्श्वगृहं गत्वा पृष्टं मया । तद्गृहस्य गृहिणी द्वारम् उद्घाटितवती । ऐदम्प्राथम्येन तया सह भाषितं मया । ‘‘किं भो: ! कुत्र गतवान् आसीत् भवान् एतावन्ति दिनानि ? स: भवद्विषये बहु विचारयति स्म ...’’ इति उक्तवती सा ।
‘‘मम परीक्षा: प्रवर्तन्ते स्म । अत: न आगतम् । आर्य: किं ग्रामं गत: ?’’ इति पृष्टं मया कातरतया ।
‘‘न ग्रामम्, अपि तु परलोकं गत:  ! स: तु दिवङ्गत: । विंशति: दिनानि अतीतानि’’ इत्युक्तं तया ।
मया पूर्वापरं न ज्ञातम् । ‘‘भवते दूरवाणी करणीया इति तेन बहुधा चिन्तितम् । किन्तु सा दूरवाणी भवता अत्रैव त्यक्त्वा गतम् आसीत् । भावन् एव बहुधा स्मर्यते स्म तेन । वयमेव तं चिकित्सालयं नीत्वा तत्पुत्रं सूचितवन्त: । अनन्तरं स: दिवङ्गत: इति ज्ञातम्’’ इत्युक्तं तया ।
विद्युदाघातं प्राप्तवान् इव अहं स्तब्ध: । सा एव -  ‘‘समाश्वसिहि । किं वा कर्तंु शक्यम् ? तस्य आयु: तावान् एव आसीत् । इदं सर्वम् अनिवार्यम्’’ इति सान्त्वनवचनानि उक्तवती ।
‘‘पुत्र: स्नुषा च अस्मिन् नगरे मल्लेश्वरे वसत: । उभौ अपि  तन्त्रज्ञौ । आर्य: ताभ्यां सहैव वसति स्म । किन्तु पुत्र: स्नुषा च सर्वदा कार्यालये एव भवत: स्म । तौ पौत्रं सवसतिकविद्यालये योजित-वन्तौ । गृहे आर्य: एक: एव । ‘य: कोऽपि आगच्छेत् चेत् द्वारं न उद्घाटनीयम्’ ‘कुत्रापि नैव गन्तव्यम्’ इत्यादिभि: आदेशवचनै: प्राय: स: खिन्न: । भवता अपि दृष्टं स्यात् एव खलु - एक: एव स: गृहे कदापि न भवति स्म । किञ्चित्कालं वा बहि: अटित्वा आगम्येत चेदेव तस्य मन: समाहितं तिष्ठति स्म । कार्यार्थं गमनावसरे पुत्र: स्नुषा च गृहं बहिर्भागत: कीलयित्वा गच्छत: स्म प्राय: । एषु दिनेषु बेङ्गलूरुनगरे एकाकिनां वृद्धानां मारणं, गृहे स्थिताया: सम्पद: चौर्यं च बहुधा जायमानं लक्ष्यते । ताभ्यां कृतमपि एकया दृष्ट्या   युक्तमेव । किन्तु आर्य: प्राचीनकालीन: । ‘मया किमपि न ज्ञायते, वृद्धोऽहम्’ इति धिया ताभ्याम् एवं गृहबन्धनं कृतमिति मत्वा स: कुपित: स्यात् इति मन्ये । स: तद्गृहं परित्यज्य अत्र आगत: इति भाति । स: किं भवत: बन्धु: ? भवति अत्यन्तं स्निह्यति स्म स: । तीव्रे ज्वरतापे सत्यपि भवन्नाम एव जपति स्म स: । ‘किम् आगतवान् स: ?’ इति बहुधा विचारयति स्म’’ इति उक्तवती सा गृहिणी ।
तस्या: एकैकमपि वचनं मयि महतीं वेदनाम् अजनयत् । तीव्र: आघात: मया अनुभूत: । मया महान् दोष: आचरित: आसीत् ।
किञ्चिदनन्तरम् - ‘‘एषोऽहं साधयामि’’ इति उक्त्वा मया यदा प्रस्थितं तदा सा किमपि स्मृतवती इव ‘किञ्चित् तिष्ठ’ इति उक्त्वा अन्त: गत्वा किञ्चन पिहितपत्रम् आनीय दत्तवती ।
‘‘मया अन्यत्र यदा गम्येत, तदानीं समीर: अत्र आगच्छेत् । तदा इदं तस्मै दीयताम् इति आर्येण उक्तम् आसीत्’’ इति उक्तवती सा । यन्त्रवत् तत्पत्रं स्वीकृत्य तत: प्रस्थितं मया ।
प्रकोष्ठे शून्यम् आवृतमिव भाति स्म । इत: षड्भ्य: मासेभ्य: पूर्वं पितामहस्य दिवङ्गते: अनन्तरम् एवमेव अनुभूति: आसीत् । तादृशी एव खिन्नता पुनरपि आवृता अभवत् । भोजनं न रोचते स्म । शय्यायां यदा पार्श्वपरिवर्तनं कृतं, तदा प्रात: आनीतं पिहितपत्रं स्मृतम् । किं स्यात् अन्त: इति कुतूहलेन तत् मया उद्घाटितम् ।
अहो, आश्चर्यम् ! तत्र आसीत् षष्टिसहस्रस्य रूप्यकाणां धनदेयकम् !! तदपि मन्नाम्ना !!! तेन सह आर्यस्य हस्ताङ्कनसहितं लघुपत्रम् अपि । तत्र लिखितम् आसीत् - ‘‘अनेन धनेन यानं  क्रीणीहि । तेनैव तव ग्रामं गच्छाव’’ इति ।
‘प्रकोष्ठात् विद्यालयं प्रति गन्तुं महान् समय: अपेक्षित: इति कथयति भवान् । बैक्यानस्य कियत् मूल्यं भवेत् ?’ इति तेन पृष्ट: प्रश्न: स्मृत: मया । आर्यस्य अभिमानेन मम नेत्रे अश्रुपूर्णे जाते । किन्तु यदा अहं तत् धनं प्राप्तुं वित्तकोषं गत:, तदा तत्र आश्चर्यं जातम् । तत्र तस्य व्यवहार: स्थगित: आसीत् ।
‘इदं धनदेयकम् अधुना किं कुर्याम् ? तत्पुत्र: कीदृश: इति तु न ज्ञायते । भवते किमर्थं मत्पित्रा एतावत् धनं प्रदत्तम् ? इति स: बहु विचारयेत् चेत् किम् उत्तरं वक्तव्यम् ? अथवा वृथा चिन्तनेन   किम् ? तत्पुत्रेण सह सम्भाषणम् एव वरम्’ इति विचिन्त्य अहं तदीयं सङ्केतं स्वीकृत्य तद्गृहं गत: ।
तत् किञ्चिन विशालं महद्गृहम् । यदा आकारिका मया नुन्ना तदा कश्चित् आजानुबाहु: प्ाुरुष: आगत्य द्वारम् उद्घाटितवान् । आर्यस्य प्रतिरूपी स: । मुखे गम्भीरभाव: । ‘किम् ?’ इति प्रश्नार्थकमुखभावेन दृष्टं तेन ।
‘‘अहं समीर:’’ इत्युक्तं मया ।
‘‘अहो, भवान् एव किं समीरनामा ? मम पितु: आत्मीयं मित्रं खलु भवान् !! आगम्यताम्, आगम्यताम्’’ इति उक्त्वा स: मां सादरम् अन्त: आहूतवान् । वाचि आत्मीयता आसीत् । उत्साहेन भाषते स्म स: ।
‘‘पित्रा भवद्विषये उक्तम् आसीत् । भवत्सङ्केत: यदि ज्ञात: स्यात् तर्हि अहमेव आगत्य मिलेयम्’’ इति उक्तं तेन । आङ्ग्लभाषया एव भाषते स्म स: ।
मम कोषे विद्यमानं धनदेयकं तस्मै दत्तं मया । ‘‘किमिदम् ?’’ इति उक्त्वा देयादेशपत्रं परिशील्य - ‘‘सत्यम् । व्यवहार: मयैव स्थगितीकृत: । अन्यत् धनदेयकं दास्यामि’’ इति उक्त्वा स: अन्यत् धनदेयकं लेखितुम् उद्युक्त: ।
‘‘महोदय, धनदेयकं मास्तु । मया न पृष्टं तत् । आर्येण अपि किमपि दातव्यं न वर्तते’’ इति उक्तं मया ।
‘‘विवरणं न अपेक्षितम् । पित्रा भवते दत्तम् । अत: मया भवते दीयमानम् अस्ति’’ इति उक्त्वा धनदेयकं मद्धस्ते निक्षिप्तं तेन ।
‘‘अन्तिमेषु दिनेषु तस्य एकाकिता भवता निवारिता । पौत्रेण यादृशी प्रीति: दर्श्येत तादृशी प्रीति: भवता प्रदर्शिता । तदर्थं यावन्त: अपि धन्यवादा: अर्प्येरन् चेदपि तत् अपर्याप्तं भवेत् । बान्धव: इव तस्मै साहचर्यं प्रदत्तं भवता । भवत: सहवासस्तु तेन इष्यते स्म खलु ? तदेव महान्तं सन्तोषं जनयति अस्मासु । भवन्तं बहुधा स्मरति स्म स:’’ इति उक्त्वा किञ्चिदनन्तरं स: मन्दस्वरेण पृष्टवान् - ‘‘मम विषये किं बहुधा खिन्न: आसीत् स: ?’’ इति ।
‘‘नैव महोदय । भवान् अस्मिन्नेव नगरे वसति इत्यंश: अपि तेन कदापि न उक्त: आसीत्’’ इति उत्तरितं मया ।
एतत् श्रुतवत: तस्य मुखे वेदना अवलोकिता मया ।
‘‘किं कर्तंु शक्येत ? अन्तपर्यन्तमपि तेन समञ्जनं नैव कृतम् । मत्प्ाुत्रस्तु पितामहेन सहैव स्थातुम् इच्छति स्म । स तु तत्कालीन-वर्णनं कुर्वन् कालं यापयति स्म । तत्सर्वं श्रुत्वा अस्मत्पुत्र: नश्येत् इति मत्वा वयं तं सवसतिकविद्यालये योजितवन्तौ । तदर्थं कुपित: पिता स्वकोपं कदापि न त्यक्तवान् । तदानीम् एतद्गृहं त्यक्त्वा गत: स: पुन: न प्रत्यागत: एव’’ इत्युक्तं तेन ।
‘‘सर्वासु अनुकूलतासु सतीष्वपि स: अत्र न उषितवान्’’ इति कथयत: तस्य वचसि महान् खेद: लक्ष्यते स्म । अपराधिभावना सम्यगेव अभिव्यज्यते स्म तत: ।
‘‘भवता अग्रे किम् अध्येतव्यम् इति निर्णीतम् ?’’ इति पृष्टवान् स: ।
‘‘अहं तन्त्रज्ञ: भवेयम् इति मम पितामहोऽपि कामयते स्म । अहमपि तन्त्रज्ञानविद्याम् एव अध्येतुम् इच्छामि’’ इति उक्तं मया ।
‘‘पितु: अपि अयमेव अभिप्राय: आसीत् । तस्य वचनम् अहम् आदेशवत् पालयामि । भवत: अग्रिमाध्ययनस्य समग्रमपि व्ययम् अहमेव निर्वक्ष्यामि’’ इत्युक्तं तेन ।
‘‘महोदय !’’.... इति मम वचनम् अर्धे एव स्थगयन् - ‘‘स: भवत्पितामह: एव जात: आसीत् । अन्त्यकाले तस्य एकाकिता भवता परिहृता । तदर्थं यावत्य: कृतज्ञता: अर्पिता: चेदपि अपर्याप्तं भवेत्’’ इति वदन् स: भावपूर्ण: जात: ।
यदा मया प्रस्थातुम् उद्यतं तावता स: - ‘‘किञ्चित् तिष्ठ’’ इति उक्त्वा प्रत्यागत्य - ‘‘परीक्षा: सर्वा: समाप्ता: नन्ाु ? आगामिमासे एव खलु फलितांश: प्रकटित: भवेत् ? तदा सामान्यप्रवेशपरीक्षा लेखनीया खलु ? यदि अङ्काधारेण स्थानं न प्राप्येत, तर्हि ‘पेमेण्ट्-सीट्’द्वारा एव वा भवान् प्रवेशं प्राप्न्ाुयात् । भवत: स्वभावं जानामि अहम् । पुन: पुन: अत्र न आगच्छेत् भवान् इत्यपि जानामि । एतत् स्वीकरोतु । पुन: किमपि अपेक्षितं चेत् निस्सङ्कोचं पृच्छतु । एतत् धनं पितु: एव । अत्र मदीयमिति किमपि नास्ति’’ इति वदन् पुनरेकं धनदेयकं प्रदत्तवान् ।
महदाश्चर्यम् अनुभूतं मया । आर्यस्य अन्त:करणं स्मरत: मम नेत्रे अश्रुपूर्णे जाते । स: - ‘‘पितु: आशा पूरणीया खलु ?’’ इति वदन् ‘‘किञ्चित् फलरसम् आनयामि, उपविश्यताम्’’ इति माम् उपावेश्य अन्त: गतवान् ।
किङ्कर्तव्यतामूढ: अहं तथैव उपविष्ट: । पितु: विषये पुत्र: एतावान् सन्निकृष्ट: स्यात् इति तु कल्पनातीतम् आसीत् ।

·        

Saturday, September 3, 2011

ಹಿಂದುತ್ವ ಮತ್ತು ಆಧುನಿಕ

ಆರ್ಥಿಕ ಸವಾಲುಗಳು

ಇಂಗ್ಲಿಷ್ ಮೂಲ: ಎಸ್. ಗುರುಮೂರ್ತಿ


ಪ್ರಾರಂಭದಲ್ಲೇ ಪ್ರಶ್ನೆ

ಲೇಖನದ ತಲೆಬರಹವೇ ಆಸಕ್ತಿದಾಯಕ ಮತ್ತು ಪ್ರಾಜ್ಞ ಪ್ರಶ್ನೆಗಳನ್ನು ಆರಂಭದಲ್ಲೇ ಮುಂದಿಡುತ್ತದೆ. ಪ್ರಾಚೀನತೆಯಲ್ಲಿ ಹುದುಗಿರುವ ಭಾರತದ ಹಿಂದುತ್ವಕ್ಕೂ ಜಗತ್ತಿನ ಭವಿಷ್ಯತ್ತಿಗೂ ಎತ್ತಣಿಂದೆತ್ತ ಸಂಬಂಧ? ಸಾಂಪ್ರದಾಯಿಕ ಹಿಂದುತ್ವವು ಆಧುನಿಕ ಮತ್ತು ಆಧುನಿಕೋತ್ತರ ಜಗತ್ತಿನ ಜೊತೆಗೆ ಹಾಗೂ ಆಧುನಿಕ ಆರ್ಥಿಕ ಬೆಳವಣಿಗೆ ಮತ್ತದರ ಆಧುನಿಕೋತ್ತರ ಶೈಲಿಗೆ ಹೊಂದಿಕೊಳ್ಳುವುದೇ? ಮೊದಲಿಗೆ ಮತ್ತು ಅತ್ಯಂತ ಪ್ರಮುಖವಾಗಿ ಆಲೋಚಿಸಬೇಕಾದ ವಿಷಯವೆಂದರೆ, ಹಿಂದುತ್ವದಲ್ಲಿ ವ್ಯಾವಹಾರಿಕವಾಗಿ ಕೆಲಸ ಮಾಡಬಲ್ಲ ಭೌತಿಕ ತತ್ತ ವಿದೆಯೇ? ಸಮಗ್ರ ಅರ್ಥಶಾಸ್ತ್ರವನ್ನು ಅದು ವ್ಯಕ್ತಗೊಳಿಸಬಲ್ಲುದೇ? ಹಿಂದುತ್ವವು ಯಶಸ್ವೀ ಪ್ರಾಪಂಚಿಕ ಜೀವನಪದ್ಧತಿಯೆ?

ಪಾರಂಪರಿಕ ಅರ್ಥಶಾಸ್ತ್ರಕ್ಕೆ ಹೊಂದುವುದೆಂದು ಸಾಬೀತಾಗಿರುವ

ಪ್ರಾಚೀನ ಹಿಂದುತ್ವ

ಕೊನೆಯ ಪ್ರಶ್ನೆಯನ್ನು ಮೊದಲು ತೆಗೆದುಕೊಳ್ಳೋಣ. ಅದಕ್ಕೆ ಸಿಗುವ ಉತ್ತರ ಸಕಾರಾತ್ಮಕವಾದುದು. ಪ್ರಾಚೀನ ಇತಿಹಾಸವನ್ನು ಸಂಕ್ಷೇಪವಾಗಿಯಾದರೂ ಅವಲೋಕಿಸಿದಾಗ ಇದು ತಿಳಿಯುತ್ತದೆ. ಕಲ್ಪಿತ ಸಿದ್ಧಾಂತವನ್ನೇ ಹಬ್ಬಿಸುವ ಪ್ರವೃತ್ತಿಯುಳ್ಳ-ಭಾರತವನ್ನು ನೋಡದೆಯೇ ತೀರ್ಪನ್ನು ನೀಡಿರುವ-ಮ್ಯಾಕ್ಸ್ ವೇಬರ್ ಮುಂತಾದ ಪಾಶ್ಚಾತ್ಯ ವಿದ್ವಾಂಸರು ವ್ಯಕ್ತಪಡಿಸಿರುವ ಅಭಿಪ್ರಾಯವೆಂದರೆ - ಕರ್ಮಗಳಿಂದಲೇ ಪುನರ್ಜನ್ಮ ಉಂಟಾಗುವುದೆಂಬ ತನ್ನದೇ ಸಿದ್ಧಾಂತವನ್ನು ನಂಬಿದ ಮತ್ತು ಜಾತಿವ್ಯವಸ್ಥೆಯನ್ನು ಪ್ರಧಾನವಾಗಿ ಹೊಂದಿರುವ ಹಿಂದುತ್ವವು ಗತಿಶೀಲತೆಗೆ ಸಹಾಯಕವಾಗಲಾರದು ಮತ್ತು ಅಭಿವೃದ್ಧಿಯನ್ನು ಬೆಳೆಸದು ಎಂಬುದು. ಆದರೆ ಅವರಿಗೆ ತಿಳಿಯದಿರುವ ಸತ್ಯವೆಂದರೆ ಕರ್ಮಗಳನ್ನು ಮತ್ತು ಪುನರ್ಜನ್ಮವನ್ನು ಯಾವಾಗಲೂ ನಂಬುವ ಮತ್ತು ಅದರೊಡನೆಯೇ ಜೀವಿಸುವ ಹಿಂದೂ ಭಾರತವು ಜಾಗತಿಕ ಅರ್ಥವ್ಯವಸ್ಥೆಯ ಪ್ರಶ್ನಾತೀತ ನಾಯಕನಾಗಿ ಕ್ರಿಸ್ತಶಕದ ಆರಂಭದಿಂದ ೧೭ನೇ ಶತಮಾನದವರೆಗೆ ಕಂಗೊಳಿಸುತ್ತಿತ್ತು. ಈ ಹೇಳಿಕೆ ಅನೇಕರನ್ನು ಆಶ್ಚರ್ಯಕ್ಕೀಡುಮಾಡಬಹುದು. ಹೆಚ್ಚೇಕೆ? ಅನೇಕ ಹಿಂದೂಗಳೂ ಇದನ್ನು ಕೇಳಿ ಅಚ್ಚರಿಗೊಂಡಾರು. ಹಿಂದೂ ಭಾರತವು ಶ್ರೀಮಂತ ರಾಷ್ಟ್ರವಾಗಿತ್ತು - ಚಿನ್ನದ ಗೂಡಾಗಿತ್ತು ಎಂಬುದು ಇಲ್ಲಿಯವರೆಗೆ ದಂತಕಥೆಯಾಗಿಯೇ ಉಳಿದಿತ್ತು. ಇದೀಗ ಈ ವಿಷಯವು ಜಾಗತಿಕ ಆರ್ಥಿಕ ಇತಿಹಾಸದಲ್ಲಿ ವಿವಾದಾತೀತವಾಗಿ ಸಾಬೀತಾಗಿದೆ. ಪ್ರಮುಖ ಆರ್ಥಿಕ ಇತಿಹಾಸಕಾರರಾದ ಆಂಗಸ್ ಮ್ಯಾಡಿಸನ್‌ರವರು ಬರೆದ ೨೦೦೧ರಲ್ಲಿ ಪ್ರಕಟವಾದ (೨೦೦೭ರಲ್ಲಿ ಮರುಮುದ್ರಣಗೊಂಡ) ಜಾಗತಿಕ ಆರ್ಥಿಕ ಇತಿಹಾಸದ ಬಗೆಗಿನ ಕೃತಿಯು ಈ ಅಂಶವನ್ನು ಜಾಹೀರುಗೊಳಿಸುತ್ತದೆ. ೨೦೧೦ರ ಮೊದಲ ಭಾಗದಲ್ಲಿ ತೀರಿಕೊಂಡ ಮ್ಯಾಡಿಸನ್, ಅಭಿವೃದ್ಧಿ ಹೊಂದಿದ ದೇಶಗಳ ಆರ್ಥಿಕ ಒಕ್ಕೂಟವಾದ ಆರ್ಗನೈಸೇಷನ್ ಆಫ್ ಇಕನಾಮಿಕ್ ಡೆವಲಪ್‌ಮೆಂಟ್ ಅಂಡ್ ಕೋ-ಆಪರೇಷನ್ (ಓ.ಇ.ಡಿ.ಸಿ)ನ ಸಲಹೆಗಾರರಾಗಿದ್ದರು. ಮ್ಯಾಡಿಸನ್‌ರ ಕೃತಿಯು ವ್ಯಕ್ತಪಡಿಸುವ ಅಭಿಪ್ರಾಯವೆಂದರೆ ಹಿಂದೂ ಭಾರತವು ಕ್ರಿ.ಶ. ಮೊದಲನೆಯ ಶತಮಾನದಿಂದ ೧೭ನೇ ಶತಮಾನದವರೆಗೂ ವೈಶ್ವಿಕ ಆರ್ಥಿಕತೆಯ ಪ್ರಮುಖ ಶಕ್ತಿಕೇಂದ್ರವಾಗಿತ್ತು; ಮತ್ತು, ಶತಮಾನಗಳವರೆಗೂ ಜಾಗತಿಕ ಜಿ.ಡಿ.ಪಿ.ಯ ಮೂರನೇ ಒಂದರಷ್ಟು ಭಾಗವನ್ನು ಉತ್ಪಾದಿಸಲು ಸಮರ್ಥವಾಗಿತ್ತು. ಹಿಂದೂ ಭಾರತದ ಪ್ರತಿ ವ್ಯಕ್ತಿಯ ಗಳಿಕೆಯು ಅನೇಕ ದೇಶಗಳ ಜನರ ಗಳಿಕೆಗೆ ಸಮಾನವಾಗಿತ್ತು. ವೈಶ್ವಿಕ ಆರ್ಥಿಕತೆಯ ಮೇಲಿನ ೧೭೦೦ ವರ್ಷಗಳ ಭಾರತದ ಪ್ರಭುತ್ವವನ್ನು ಅನಂತರ ಚೈನಾ ತನ್ನ ತೆಕ್ಕೆಗೆ ಸೆಳೆದುಕೊಂಡಿತು. ಯಾವಾಗಲೂ ಎರಡನೇ ಸ್ಥಾನದಲ್ಲಿದ್ದ ಚೈನಾ ಕ್ರಿ.ಶ. ೧೬೦೦ರ ಹೊತ್ತಿಗೆ ಭಾರತವನ್ನು ಹಿಂದಿಕ್ಕಿ ಮೆರೆಯತೊಡಗಿತು. ಆದರೆ ೧೭೦೦ರ ಹೊತ್ತಿಗೆ ಮತ್ತೆ ಭಾರತವು ನಾಯಕನಾಗಿ ಪ್ರಜ್ವಲಿಸಿತು. ಅದಾದ ಮೇಲೆ ವಸಾಹತುಶಾಹಿಯ ಕಾರಣದಿಂದ ಭಾರತವು ೧೯ ಮತ್ತು ೨೦ನೇ ಶತಮಾನಗಳಲ್ಲಿ ತನ್ನ ಸ್ಥಾನವನ್ನು ಕಳೆದುಕೊಂಡಿತು. ಚೈನಾಕ್ಕೂ ಇದೇ ಗತಿಯಾಯಿತು. ಆದರೆ ಆಂಗಸ್ ಮ್ಯಾಡಿಸನ್‌ರ ಸಂಶೋಧನೆಯ ಪ್ರಕಾರ ಸಾಬೀತಾದ ವಿಷಯವೆಂದರೆ ದೃಗ್ಗೋಚರ ಕಾಲದುದ್ದಕ್ಕೂ ನಿಸ್ಸಂದೇಹವಾಗಿ ಆರ್ಥಿಕತೆಯ ವಿಷಯದಲ್ಲಿ ಹಿಂದೂ ಭಾರತವು ಬೇರೆಲ್ಲ ದೇಶಗಳಿಗಿಂತ ಮುಂಚೂಣಿಯಲ್ಲಿತ್ತು.

ಗಾಢಾಂಧಕಾರದಲ್ಲಿ ಮುಳುಗಿ ಯಾರಿಂದಲೂ ಗಣನೆಗೇ ಒಳಗಾಗದ, ಎಲ್ಲಿಯೂ ಕಾಣಸಿಗದ ಪಾಶ್ಚಾತ್ಯ-ಯೂರೋಪ್-ದೇಶಗಳು ಕ್ರಿ.ಶ. ೧೫೦೦ರ ನಂತರದ ಧಾರ್ಮಿಕ ಪ್ರಸಾರದಿಂದ ಮತ್ತು ಆರ್ಥಿಕ ಜಾಗತೀಕರಣದ ಕಾರಣದಿಂದ ಜಗತ್ತನ್ನು ಶೋಷಣೆ ಮಾಡಲು ತೊಡಗಿದವು. ಮತ್ತು ಮುಂದಿನ ನೂರು ವರ್ಷಗಳಲ್ಲಿ ಭಾರತ ಮತ್ತು ಚೈನಾ ಸೇರಿದಂತೆ ಬೇರೆ ದೇಶಗಳ ಮೇಲೆ ಪ್ರಭುತ್ವವನ್ನು ಸ್ಥಾಪಿಸಿದವು. ಆದ್ದರಿಂದ, ಹಿಂದುತ್ವವು ಮೂಲಭೂತ ಹೊಂದಾಣಿಕೆ ಮತ್ತು ಭೌತಿಕ ಜೀವನದ ಪೋಷಕವಾಗಿರದ ಪಕ್ಷದಲ್ಲಿ, ಭಾರತವು ೧೭ ಶತಮಾನಗಳವರೆಗೆ ಅಂತಹ ಶ್ರೇಷ್ಠವಾದ ವಿಕಾಸವನ್ನು ಹೊಂದಿ ಜಗತ್ತಿನ ಉಳಿದೆಲ್ಲ ದೇಶಗಳಿಗಿಂತ ಹೆಚ್ಚು ಸ್ಥಿರವಾದ ಬೆಳವಣಿಗೆಯನ್ನು ಸಾಧಿಸುವುದು ಅಸಂಭವವಾಗುತ್ತಿತ್ತು. ಹಿಂದು ಭಾರತವನ್ನು ಕುರಿತಂತೆ ತಮ್ಮ ಕ್ಷುಲ್ಲಕ ದೃಷ್ಟಿಯ ಮೂಲಕ ಹಿಂದೂ ಬೆಳವಣಿಗೆ ದರ ಎಂಬ ಹೊಸದಾದ ಅವಮಾನಕಾರಿಯಾದ ಪದಗುಚ್ಚವನ್ನೂ ಬಳಸುವ ಭಾರತದ ಸೆಕ್ಯುಲರ್ ಆರ್ಥಿಕ ಚಿಂತಕರು ಒಂದೆಡೆಯಾದರೆ, ಇನ್ನೊಂದೆಡೆ ಹಿಂದೂ ತತ್ತ ಶಾಸ್ತ್ರವು ಭೌತಿಕ ಬೆಳವಣಿಗೆಯನ್ನು ಶ್ರೀಮಂತವಾಗಿಸುವಲ್ಲಿ ಸಹಕಾರಿಯಾಗಿದೆ ಎಂಬುದು ಸತ್ಯವಲ್ಲ ಎಂಬ ಅಸಂಬದ್ಧ ಮತ್ತು ಕಲ್ಪಿತ ವಾದ ಮಂಡಿಸಿದವರು ವಿಶ್ವಬ್ಯಾಂಕ್‌ನ ಮುಖ್ಯಸ್ಥರಾಗಿದ್ದ ರಾಬರ್ಟ್ ಮೆಕ್‌ನೆಮಾರಾರವರು. ದೈವಶರಣಾಗತಿ ಮತ್ತು ಸಂತೃಪ್ತಿಯನ್ನು ಸಮೀಕರಿಸಲು ಮ್ಯಾಕ್ಸ್ ವೇಬರ್ ಪುನರುಚ್ಚರಿಸಿದ್ದೂ ಇದನ್ನೇ. ಆದರೆ ಇಂತಹ ಅವಮಾನಕಾರಿಯಾದ ಪದಗುಚ್ಚಬಳಕೆ ಅರ್ಥಹೀನವೆಂದು ಆಂಗಸ್ ಮ್ಯಾಡಿಸನ್‌ರ ಸಂಶೋಧನೆಯಿಂದ ಸಾಬೀತಾಗಿದೆ. ಹಿಂದೂ ಭಾರತದ ಅಭಿವೃದ್ಧಿಯು ಸರಿಯಾದ ರೀತಿಯಲ್ಲೇ ಮುನ್ನಡೆಯುತ್ತಿತ್ತು ಎಂಬುದಕ್ಕೆ ಮತ್ತಾವುದೇ ಪುರಾವೆಯ ಅಗತ್ಯವಿಲ್ಲ. ಭಾರತವು ಪಾಶ್ಚಾತ್ಯರ ವಸಾಹತುಶಾಹಿಗೆ ಈಡಾಗಿತ್ತು ಮತ್ತು ಅನಂತರದ ಕಾಲದಲ್ಲಿ ರಶಿಯನ್ ಸಮಾಜವಾದವನ್ನು ಅನುಸರಿಸಿ ಅಧಃಪತನಕ್ಕೀಡಾಯಿತು.

ಸಾಂದರ್ಭಿಕವಾಗಿ ಹೇಳುವುದಾದರೆ ಸಮಾಜವಾದದ ಆಧಿಪತ್ಯವನ್ನು ತೊಡೆದುಹಾಕಿದಮೇಲೆ, ಹಿಂದೂ ಭಾರತವು ಈಗೀಗ ಅಭಿವೃದ್ಧಿಪಥದಲ್ಲಿ ಚೆನ್ನಾಗಿ ಸಾಗುತ್ತಿದೆ. ಮತ್ತು ಅಭಿವೃದ್ಧಿ ಅಂಕದಲ್ಲಿ ಚೈನಾದ ನಂತರದ ಸ್ಥಾನದಲ್ಲಿದ್ದು ಮುಂದಿನ ಎರಡು ದಶಕಗಳಲ್ಲಿ ಅಮೆರಿಕಾ ಮತ್ತು ಚೈನಾದ ಜೊತೆಗೆ ವಿಶ್ವಶಕ್ತಿಯಾಗಿ ನಿಲ್ಲಲಿದೆ. ಆದ್ದರಿಂದ ೧೯ ಮತ್ತು ೨೦ನೇ ಶತಮಾನದಲ್ಲಿ ಭಾರತ ತನಗಿಂತ ಹಿಂದುಳಿದಿದ್ದ ಬೇರೆ ದೇಶಗಳಿಗಿಂತಲೂ ಅಭಿವೃದ್ಧಿಯಲ್ಲೇಕೆ ಹಿಂದುಳಿಯಿತು ಎಂಬ ಪ್ರಶ್ನೆಗೆ ತಾರ್ಕಿಕವಾಗಿ ಉತ್ತರ ಬಯಸುವುದಾದರೆ ಹೀಗೆ ಹೇಳಬಹುದು: ಹಿಂದೂ ಭಾರತದ ಅಭಿವೃದ್ಧಿಯು ಮೊದಲು ವಸಾಹತುಶಾಹಿಯಿಂದ ಮತ್ತು ತದನಂತರ ಸಮಾಜವಾದದಿಂದ ಕುಂಠಿತವಾಯಿತು. ಈ ಎರಡೂ ಮಧ್ಯಪ್ರವೇಶಗಳನ್ನು ದೂರಮಾಡಿದ ಮೇಲೆ ಅದೇ ಹಿಂದೂ ಭಾರತವು ವಿಜೃಂಭಣೆಯಿಂದ ಅಭಿವೃದ್ಧಿಯನ್ನು ಕಾಣತೊಡಗಿ ೨೦೦೪ರ ಹೊತ್ತಿಗೆ ಸುಮಾರು ಶೇಕಡಾ ೮ರ ದರದಲ್ಲಿ ಬೆಳವಣಿಗೆ ಹೊಂದತೊಡಗಿತು. ಗಾಬರಿ ಹುಟ್ಟಿಸುವ ಅಂಶವೆಂದರೆ ಸೆಕ್ಯುಲರ್ ಭಾರತದ ಬೊಬ್ಬೆಯ ಪ್ರಕಾರ ಹೆಚ್ಚಾದ ಆಂಶಿಕ ಬೆಳವಣಿಗೆ ದರದ ಕೊಡುಗೆ ಹಿಂದೂಗಳದ್ದಲ್ಲ. ಆದರೆ ಹಳೆಯ ಕಾಲದ ಕಡಮೆ ಆಂಶಿಕ ಬೆಳವಣಿಗೆಗೆ ಮಾತ್ರ ಹಿಂದೂಗಳೇ ಕಾರಣರೆಂದು ಹೇಳಲಾಗುತ್ತಿದೆ! ಇದರಿಂದ ಜಾಹೀರಾಗುವ ಅಂಶವೆಂದರೆ, ಭಾರತದ ಸ್ವಾತಂತ್ರ್ಯೋತ್ತರ ಕಾಲದ ಬೌದ್ಧಿಕ, ರಾಜಕೀಯ, ಸಾಮಾಜಿಕ ಮತ್ತು ಆರ್ಥಿಕ ಬೊಬ್ಬೆಯ ಹಿಂದಿರುವುದು ವಾಮಪಂಥೀಯ ಮತ್ತು ಸೆಕ್ಯುಲರ್ ಆರ್ಥಿಕ ಚಿಂತಕರು.

ಹಿಂದೂ ಭಾರತದ ಅಭಿವೃದ್ಧಿಯು ೧೭೦೦ ವರ್ಷಗಳ ಕಾಲ ಅನವರತವಾಗಿ ವಿಜೃಂಭಿಸಿದುದು ಹೇಗೆ?

ಹಿಂದಿನ ಕಾಲಘಟ್ಟದಲ್ಲಿ ಹಿಂದೂ ಭಾರತದ ಅಭಿವೃದ್ಧಿ ಹೆಚ್ಚಾಗಲು ಕಾರಣವೇನು? ಅಂದಿನ ಕಾಲದಲ್ಲಿ ಪಶ್ಚಿಮದೇಶಗಳು, ಅದರಲ್ಲೂ ವಿಶೇಷವಾಗಿ ಯೂರೋಪ್ ಮೊದಲಾದ ಪಾಶ್ಚಾತ್ಯ ದೇಶಗಳು ಧಾರ್ಮಿಕ ಮತ್ತು ಸೆಕ್ಯುಲರ್ ಗಲಭೆಯಿಂದ ನಶಿಸಿಹೋದವು ಎಂಬುದು ದಿಟ. ಆದರೆ ಹಿಂದೂ ಭಾರತವು ೧೪ನೇ ಶತಮಾನದವರೆಗೆ ಅಂದರೆ ಪಶ್ಚಿಮದ ಗಡಿಯ ಮೂಲಕ ತುರ್ಕರು ಮತ್ತು ಪರ್ಷಿಯನ್ನರ ಆಕ್ರಮಣದವರೆಗೂ ಶಾಂತಿಯುತವಾದ ಸಾಮಾಜಿಕ ಮತ್ತು ರಾಜಕೀಯ ಬದುಕನ್ನು ಸಾಗಿಸಿತ್ತು. ಇದರೊಂದಿಗೆ ಅದು ವ್ಯಾವಹಾರಿಕವಾದ ಸಾಮಾಜಿಕ-ಆರ್ಥಿಕ ತತ್ತ ಜ್ಞಾನವನ್ನು ಮತ್ತು ಕ್ರಿಯಾತ್ಮಕವೂ ಪ್ರಸ್ತುತವೂ ಕಾಲೋಚಿತವೂ ಆದ ಸಾಮಾಜಿಕ ವ್ಯವಸ್ಥೆಯನ್ನು ಹೊಂದಿತ್ತು. ತಾತ್ತಿ ಕ ವ್ಯವಸ್ಥೆ ಮತ್ತು ಸಾಮಾಜಿಕ ಸಂಪ್ರದಾಯಗಳು ಒಗ್ಗೂಡಿ ಸಾಮಾಜಿಕ-ಆರ್ಥಿಕ ಶಾಸನವ್ಯವಸ್ಥೆಯನ್ನು ನಿರ್ಮಿಸಿದವು. ಹಾಗಾದರೆ ಅಂತಹ ವಿಶಿಷ್ಟವಾದ ಭಾರತದ ಸಾಮಾಜಿಕ-ಆರ್ಥಿಕ ತತ್ತ ಜ್ಞಾನವೆಂತಹುದು? ಈಗ ಜೀವಿಸಿರುವ ಎಲ್ಲ ಪ್ರಾಚೀನ ಸಂಪ್ರದಾಯಗಳಲ್ಲಿ, ಹಿಂದುತ್ವವೊಂದೇ ಅಂತಹ ವಿಶಿಷ್ಟವಾದ ಸಾಮಾಜಿಕ-ಆರ್ಥಿಕ ತತ್ತ ಜ್ಞಾನ ಮತ್ತು ಶಾಸನವ್ಯವಸ್ಥೆಯನ್ನು ಹೊಂದಿತ್ತು. ಆದ್ದರಿಂದಲೇ ಹಿಂದು ಭಾರತವು ಅಂತಹ ಸಾಮಾಜಿಕ-ಆರ್ಥಿಕ ಸಂಘಟನೆಗಳನ್ನು ಕಟ್ಟಿ, ಸಾಮಾಜಿಕ, ಆರ್ಥಿಕ ಹಾಗೂ ಬೌದ್ಧಿಕ ಬಂಡವಾಳವನ್ನು ಸೃಷ್ಟಿಸಿ, ಸ್ವದೇಶದ ಬಳಕೆಯನ್ನು ನಿಯಂತ್ರಿಸಿ, ರಫ್ತಿಗೂ ಆದ್ಯತೆ ನೀಡುತ್ತಿತ್ತು. ಮೊದಲಿಗೆ ನಾವು ಹಿಂದೂ ಭಾರತವು ಸ್ವದೇಶದ ಬಳಕೆಯನ್ನು ನಿಯಂತ್ರಿಸಿ ರಫ್ತಿಗೆ ಆದ್ಯತೆ ಒದಗಿಸುವ ವಿಕಾಸವ್ಯವಸ್ಥೆಯನ್ನು ಹೇಗೆ ಹೊಂದಿತ್ತು ಎಂಬುದನ್ನು ಪ್ರಮುಖವಾಗಿ ಗಮನಿಸೋಣ. ಭಾರತವು ವಿಶ್ವದಲ್ಲೇ ರಫ್ತನ್ನು ಆಧರಿಸಿದ ವಿಕಾಸವ್ಯವಸ್ಥೆಯನ್ನು ಹೊಂದಿದ್ದು ಆ ಮೂಲಕ ನಿವ್ವಳ ಲಾಭ ಗಳಿಸಿ ಸಂಪದ್ಭರಿತವಾದ ಏಕೈಕ ದೇಶ. ಭಾರತದ ಸಂತೃಪ್ತ ಸಂಸ್ಕೃತಿಯಲ್ಲಿಯೇ ಅಡಗಿರುವ ಬಳಕೆಯ ನಿಯಂತ್ರಣವ್ಯವಸ್ಥೆಯನ್ನು ಟೀಕಿಸಿರುವ ರಾಬರ್ಟ್ ಮೆಕ್‌ನೆಮಾರಾರವರು ಸ್ವದೇಶೀ ಗತಿಶೀಲತೆಗೆ ವಿರೋಧ ವ್ಯಕ್ತಪಡಿಸಲಿಲ್ಲ. ಏಕೆಂದರೆ ಅದು ರಫ್ತಿಗೆ ಪೂರಕವಾದುದು. ಚೈನಾ ಈಗ ಮಾಡುತ್ತಿರುವ ಕೆಲಸವನ್ನು ಭಾರತವು ಆ ಕಾಲದಲ್ಲೇ ನಿರ್ವಹಿಸಿತ್ತು. ಚೈನಾ ದೇಶದ ಜಿ.ಡಿ.ಪಿ.ಯ ಶೇ. ೩೨ರಷ್ಟು ಆ ದೇಶದೊಳಗೆ ಬಳಕೆಯಾಗುತ್ತಿತ್ತು. ಜಗತ್ತಿನಲ್ಲಿಯೇ ಇದು ಅತ್ಯಂತ ಕಡಮೆ ದರ. ಆದರೂ ಚೈನಾದ ಕಾರ್ಯವಂತಿಕೆ ಜಗತ್ಪ್ರಸಿದ್ಧ ಹಾಗೂ ದಕ್ಷ.

ರಫ್ತನ್ನು ಆಧರಿಸಿ ವಿಕಾಸವನ್ನು ಹೊಂದಿದ ಭಾರತದ ಶ್ರೇಷ್ಠ ವಿಕಾಸಗಾಥೆ ಆರಂಭವಾಗುವುದು ಪ್ರಾಯಶಃ ಮೌರ್ಯ ಸಾಮ್ರಾಜ್ಯದಿಂದ(ಕ್ರಿ.ಪೂ. ೩೨೫ರಿಂದ ಕ್ರಿ.ಪೂ. ೧೮೫). ಅದು ಎಲ್ಲ ದೇಶಗಳಿಗಿಂತ ಮುಂದಿತ್ತು. ಭಾರತದಲ್ಲಿ ಮತ ಮತ್ತು ಆರ್ಥಿಕ ಚಟುವಟಿಕೆ; ಚಾರಿತ್ರಿಕ ಪರಿಪ್ರೇಕ್ಷ್ಯ ಎಂಬ ಸಂಶೋಧನ ಲೇಖನದಲ್ಲಿ ರಾಜೀವ್ ದಹೇಜಿಯಾ ಮತ್ತು ವಿವೇಕ್ ದಹೇಜಿಯಾರವರು ಹೀಗೆ ಹೇಳುತ್ತಾರೆ: ಮೌರ್ಯ ಸಾಮ್ರಾಜ್ಯದ ಸಂಪತ್ತಿಗೆ ಕಾರಣ ಅದರ ಶ್ರೀಮಂತ ಭೂಮಿ ಮತ್ತು ಪೂರ್ವದಲ್ಲಿ ಚೈನಾ ಹಾಗೂ ಸುಮಾತ್ರಾದ ಜೊತೆಗೆ, ದಕ್ಷಿಣದಲ್ಲಿ ಸಿಲೋನ್‌ನ ಜೊತೆಗೆ, ಪಶ್ಚಿಮದಲ್ಲಿ ಪರ್ಷಿಯಾ ಮತ್ತು ಮೆಡಿಟರೇನಿಯನ್‌ಗಳ ಜೊತೆಗಿನ ಸಮುದ್ರದ ವಾಣಿಜ್ಯ. ಯೂರೋಪ್ ಮತ್ತು ಚೈನಾದವರೆಗಿನ ರೇಶಿಮೆ ವಾಣಿಜ್ಯದ ಹಾದಿಯು ಭಾರತದ ಮುಖಾಂತರ ಹಾದುಹೋಗುವ ಮೂಲಕ ಭಾರತ ಬೃಹತ್ ವಾಣಿಜ್ಯದ ಹಾದಿಯ ಮಧ್ಯವರ್ತಿಯಾಯಿತು. ಅದಕ್ಕೆ ಕಾರಣ ಮೌರ್ಯರ ಸುಸಜ್ಜಿತ ವಾಣಿಜ್ಯಿಕ ನೌಕಾಸೇನೆ ಮತ್ತು ಆ ಸಾಮ್ರಾಜ್ಯದ ಎಲ್ಲ ನೌಕಾನೆಲೆಗಳನ್ನೂ ಸೇರುವ ಸುವ್ಯವಸ್ಥಿತ ರಾಜಮಾರ್ಗಗಳು. ಈ ವಾಣಿಜ್ಯ ರಾಜಮಾರ್ಗಗಳ ಇಕ್ಕೆಲಗಳಲ್ಲಿ ಮಾರುಕಟ್ಟೆಗಳು ಅಥವಾ ವಿವಿಧ ನಾಗರಿಕ ಪ್ರದೇಶಗಳಿಂದ ಒಟ್ಟುಸೇರುವ ವಾಣಿಜ್ಯ ಸಾಮಗ್ರಿಗಳ ಕೇಂದ್ರಗಳಿದ್ದವು. ಅಂತಹ ವಾಣಿಜ್ಯ ಸಾಮಗ್ರಿಗಳೆಂದರೆ ರೇಶಿಮೆ, ಉಡುಪು, ರತ್ನಗಂಬಳಿ, ಸುವಾಸನಾ ದ್ರವ್ಯಗಳು, ಅಮೂಲ್ಯ ಕಲ್ಲುಗಳು, ದಂತ ಮತ್ತು ಚಿನ್ನ. ಆಂತರಿಕ ಮಾರ್ಗವ್ಯವಸ್ಥೆಯು ಹೆದ್ದಾರಿಗಳಿಂದ ಕೂಡಿ ಇಡೀ ಸಾಮ್ರಾಜ್ಯವು ವಿದೇಶೀ ವಾಣಿಜ್ಯದಲ್ಲಿ ಭಾಗಿಯಾಗುವಂತಾಗಿ ಅದರಿಂದ ಲಾಭಾನ್ವಿತವಾಗುತ್ತಿತ್ತು. ಈಗಿನ ಕಾಲದ ನವ-ಔದ್ಯೋಗಿಕ ದೇಶಗಳಂತೆ (ನ್ಯೂಲಿ ಇಂಡಸ್ಟ್ರಿಯಲೈಸ್ಡ್ ಕಂಟ್ರೀಸ್ - ಎನ್.ಐ.ಸಿ.ಗಳಂತೆ) ಮೌರ್ಯ ಸಾಮ್ರಾಜ್ಯಕ್ಕೆ ರಫ್ತಿನಿಂದ ಸಮೃದ್ಧ ಬೆಳವಣಿಗೆಯನ್ನು ಸಾಧಿಸಿದ ಸಂತೃಪ್ತಿಯಿತ್ತು. ಭಾರತದ ಸಮೃದ್ಧ ರಫ್ತುವಾಣಿಜ್ಯಕ್ಕೆ ಪುರಾವೆ ದೊರಕುವುದು ರೋಮ್‌ನ ರಾಷ್ಟ್ರೀಯ ಪರಿಷತ್ತಿನ (ಸೆನೆಟ್) ದಾಖಲೆಗಳಲ್ಲಿ. ಅದರಲ್ಲಿರುವುದು ಪ್ಲೈನಿ ಮತ್ತು ರಾಜ ಟೈಬೀರಿಯಸ್‌ನ ನಡುವೆ ನಡೆದ, ಭಾರತದಿಂದ ರೋಮ್ ದೇಶಕ್ಕೆ ಆಮದು ಮಾಡಿಕೊಂಡ ಪದಾರ್ಥಗಳಿಗೆ ಪ್ರತಿಯಾಗಿ ನೀಡಬೇಕಾದ ಹಣದ ಬಗೆಗಿನ ದೂರಿನ ಸಂವಾದ. ಆದ್ದರಿಂದ, ತೃಪ್ತ ಸಂಸ್ಕೃತಿಯು ಸ್ವದೇಶೀ ಬಳಕೆಯನ್ನು ಕಡಮೆ ಮಾಡಿತು. ಆದರೆ, ಅದರಿಂದ ಉತ್ಪಾದನೆ ಮತ್ತು ಸಂಪತ್ತಿನ ಅನ್ವೇಷಣೆಯೇನೂ ಕಡಮೆಯಾಗಲಿಲ್ಲ. ಭಾರತದ ಪೂಜಾಪದ್ಧತಿಯಲ್ಲಿ ಸಂಪತ್ತನ್ನು ಲಕ್ಷ್ಮೀದೇವಿಯೆಂದು ಪೂಜಿಸುವುದು ಇದಕ್ಕೆ ದೊರೆಯುವ ಸೂಕ್ತ ಪುರಾವೆ. ವಾಸ್ತವವಾಗಿ ಬಳಕೆಯ ನಿಯಂತ್ರಣವು ಸ್ವದೇಶೀ ಬಳಕೆಯ ತೂಕವನ್ನು ಸಮಗೊಳಿಸಿ, ಮುಂಬರುವ ಕಾಲದ ಸ್ವದೇಶೀ ಕೂಡಿಡುವಿಕೆಗೆ ಕಾರಣವಾಯಿತು. ಅದು ಸ್ವದೇಶೀ ಪುರೋವೃದ್ಧಿಗೆ ಇಂಬು ನೀಡಲಿಲ್ಲ. ಅದಕ್ಕೆ ಕಾರಣ ಸಂಪತ್ತಿನ ದೈವೀ ಆರಾಧನೆ ಮತ್ತು ಅದರ ತಾತ್ತಿ ಕ ಸೃಷ್ಟಿಯ ಅಭ್ಯಾಸ. ಇದೇ ಕಾರಣದಿಂದ ಅದ್ಭುತವಾದ ರಾಷ್ಟ್ರೀಯ ಬಂಡವಾಳ ನಿರ್ಮಾಣವಾಯಿತು. ಅದು ರಫ್ತು-ಆಧಾರಿತ ವಿಕಾಸಕ್ಕೆ ನಾಂದಿಹಾಡಿತು.

ಈಗ ನಾವು ತತ್ತ ಜ್ಞಾನದ ಕಡೆ ಹೊರಳೋಣ. ಈ ತತ್ತ ಜ್ಞಾನವೇ ಹಿಂದೂ ಭಾರತಕ್ಕೆ ಸಾಮಾಜಿಕ-ಆರ್ಥಿಕ ಶಾಸನ ಪ್ರಾರೂಪವನ್ನು ನೀಡಿ ಸ್ವದೇಶೀ ಬಳಕೆಯನ್ನು ನಿಯಂತ್ರಿಸಿ ರಫ್ತಿಗೆ ಹೆಚ್ಚು ಒತ್ತು ನೀಡಿದ್ದು. ಯಾವ ತಾತ್ತಿ ಕ ಪದ್ಧತಿಯ ಆಚರಣೆಯಿಂದ (ಜೀವನ ಪದ್ಧತಿಯ ಕಾರಣದಿಂದ) ಹಿಂದೂಗಳು ಯೋಗ್ಯ ಜೀವನವನ್ನು ರೂಢಿಸಿಕೊಂಡರೋ, ಯಾವುದರ ಕಾರಣದಿಂದ ಚೈನಾಕ್ಕೂ ಭಾರತವನ್ನು ಮೀರಿಸಲು ಸಾಧ್ಯವಾಗದಾಗಿತ್ತೋ, ಅದಕ್ಕೆಲ್ಲ ಕಾರಣವಾದುದು ಪ್ರಾಚೀನ ಭಾರತೀಯ ಪುರುಷಾರ್ಥದ ಕಲ್ಪನೆ. ಪುರುಷಾರ್ಥದ ಕಲ್ಪನೆಯ ಪ್ರಕಾರ ಅರ್ಥ (ಭೌತಿಕ ವಸ್ತುಗಳು/ಹಣ) ಮತ್ತು ಕಾಮಗಳು (ಭೌತಿಕ ವಸ್ತುಗಳಿಂದ ಉಂಟಾದ ಪ್ರಾಪಂಚಿಕ ಸುಖ) ಧರ್ಮದ ನಿಯಮಕ್ಕೆ ಒಳಪಡುತ್ತವೆ. ಇಂತಹ ತಳಹದಿಯಿಂದ ಕೂಡಿದ ಅನುಶಾಸಿತ ಮತ್ತು ಪ್ರಾಮಾಣಿಕ ಜೀವನವು ಮೋಕ್ಷಕ್ಕೆ (ದೈವ-ಸಾಕ್ಷಾತ್ಕಾರಕ್ಕೆ) ದಾರಿಮಾಡುವುದು. ಆದ್ದರಿಂದ ಧರ್ಮದ ಕರ್ತವ್ಯದ ಪರಿಕಲ್ಪನೆಯು ಭೌತಿಕ ಸುಖದ ಮೇಲೆ ಆಧಾರಿತವಾಗಿದ್ದು ಸಂಪತ್ತಿನ ಉತ್ಪತ್ತಿ, ಸ್ಥಿತಿ, ಉಪಯೋಗ ಮತ್ತು ಖರ್ಚಿಗೂ ಕಾರಣವಾಗುತ್ತಿತ್ತು. ಆದ್ದರಿಂದ ಕರ್ತವ್ಯದ ಸಾರ್ವತ್ರಿಕ ಪ್ರಜ್ಞೆಯು ಹಕ್ಕಿಗಿಂತ ಪೂರ್ತಿಯಾಗಿ ಬೇರೆಯಾದುದು. ಈ ದಿನಗಳ ಆರ್ಥಿಕ ಪ್ರಾರೂಪದಲ್ಲಿರುವಂತೆ ಸಂಪತ್ತು ಅತ್ಯಂತ ವೈಯಕ್ತಿಕವಾದುದಾಗಿರಲಿಲ್ಲ. ಸಂಪತ್ತಿನೆಡೆಗಿನ ಕರ್ತವ್ಯವು ಸಂಪತ್ತಿನ ಸಂಚಯಕ್ಕೆ ಒತ್ತುನೀಡುವ ಮೂಲಕ ಭಾರತೀಯ ಸಂಚಯಾಭ್ಯಾಸವನ್ನು ವೈಯಕ್ತಿಕವಾಗಿಸದೇ ರಾಜವಂಶೀಯಗೊಳಿಸಿತು. ಅದರರ್ಥ ಯಾವುದೇ ಸ್ವತ್ತು ರಾಜನ ಸ್ವಂತಕ್ಕೇ ಸೇರಿದ್ದು ಅಲ್ಲ - ಎಂಬ ಅಂಶ ದೃಢವಾಗಿತ್ತು. ಪ್ರಮುಖ ಉಪನಿಷತ್ತಾದ ಈಶಾವಾಸ್ಯದಲ್ಲಿ, ಸಂಪಾದಿಸಿದ ಸಂಪತ್ತಿನ ಹೆಚ್ಚು ಭಾಗ ಸಮಾಜಕ್ಕೆ, ಮತ್ತು ಅದರ ಸ್ವಲ್ಪಭಾಗವನ್ನು ಮಾತ್ರ ಸ್ವಂತ ಬಳಕೆಗೆ ವಿನಿಯೋಗಿಸಬೇಕೆಂಬ ಆಶಯವಿದೆ. ಇತ್ತೀಚೆಗೂ ಭಾರತದ ಬಹುತೇಕ ಕುಟುಂಬಗಳ ಜೀವನಪದ್ಧತಿಯು ಪುರುಷಾರ್ಥದ ಕಲ್ಪನೆಯಿಂದ ಮಿಳಿತವಾಗಿದ್ದರಿಂದಲೇ ಗೃಹಬಳಕೆಯ ಸಂಪತ್ತಿನ ಸಂಚಯ ಅತ್ಯಂತ ಹೆಚ್ಚು ಅಂದರೆ ಜಿ.ಡಿ.ಪಿ.ಯ ೩೫ಶೇಕಡ. ಬೆಳೆಯುತ್ತಿರುವ ಕೌಟುಂಬಿಕ ಸಂಚಯದ ಕಾರಣದಿಂದ ಗೋಲ್ಡ್‌ಮನ್ ತನ್ನ ೧೮೭ನೇ ಸಂಚಿಕೆಯಲ್ಲಿ ಭಾರತದ ಅಡಿಗಟ್ಟಿನ ಬಗೆಗೆ-ಭಾರತದ ಅಡಿಗಟ್ಟನ್ನು ದೃಢಗೊಳಿಸಲು ವಿದೇಶೀ ಬಂಡವಾಳಕ್ಕಿಂತ ಭಾರತದ ಕೌಟುಂಬಿಕ ಸಂಚಯವೇ ಹೆಚ್ಚು ಉಪಯುಕ್ತ ಎಂಬುದನ್ನು ಗಮನಿಸಿ ಹೇಳಿದೆ.

ಪೋಲು ಮಾಡುವುದು ಅಥವಾ ಖರ್ಚು ಮಾಡುವುದಕ್ಕಿಂತ ಸಂಪತ್ತಿನ ಸಂಚಯಕ್ಕೆ ಪ್ರಾಧಾನ್ಯ ನೀಡಲಾಗಿದೆ. ಏಕೆಂದರೆ ಹಿಂದೂಗಳು, ಜೀವನದ ಚರಮ ಉದ್ದೇಶ ಭಕ್ತಿ, ಜ್ಞಾನ ಅಥವಾ ಕರ್ಮಮಾರ್ಗದಿಂದ ದೈವ ಸಾಕ್ಷಾತ್ಕಾರವೆಂದೇ ನಂಬಿದ್ದಾರೆ. ಒಂದೆಡೆ ಪುರುಷಾರ್ಥದ ಕಲ್ಪನೆಯು ಸಂಪತ್ತನ್ನು ಹೊಂದುವುದನ್ನು ಸ್ವಂತ ಕರ್ತವ್ಯವೆಂದು ತಿಳಿಸಿದರೆ, ಇನ್ನೊಂದೆಡೆ ಸಂಪಾದಿಸಿದ ಸಂಪತ್ತಿನಿಂದ ದೂರವಿರುವ ಅಂತಹ ವೈರಾಗ್ಯಭಾವನೆಯನ್ನೂ ಉಂಟುಮಾಡುತ್ತದೆ. ಆದ್ದರಿಂದ ಸಂಪತ್ತನ್ನು ಗಳಿಸುವುದೂ ಅದನ್ನು ತನ್ನದಲ್ಲವೆಂದು ಭಾವಿಸುವುದೂ ಪರಸ್ಪರ ಪೂರಕವಾಗಿಯೇ ಇತ್ತು. ಅದರಿಂದ ಸಂಪತ್ತು ಸೃಷ್ಟಿಯಾಗಿ ದ್ವಿಗುಣ, ತ್ರಿಗುಣವಾಯಿತೇ ವಿನಾ ವ್ಯರ್ಥವಾಗಿ ಪೋಲಾಗಲಿಲ್ಲ. ಸಮಸ್ತ ಸೃಷ್ಟಿಯೂ ಜಾತ್ಯತೀತ ಎಂಬ ಅಬ್ರಹಾಮೀ ಮತದೃಷ್ಟಿಯ ಪ್ರಕಾರ ಪ್ರಕೃತಿಯು ಮನುಷ್ಯನಿಂದ ಹಾನಿಗೀಡಾಗುವಂತಾದರೆ, ಶ್ರೇಷ್ಠ ಚಿಂತನೆಯನ್ನು ಹೊಂದಿದ ಹಿಂದೂ ಭಾರತವು ಪರಿಸರವನ್ನು ಕಾಪಾಡಿತು ಮತ್ತು ಸೈದ್ಧಾಂತಿಕವಾಗಿ ಸಮಸ್ತ ಸೃಷ್ಟಿಯನ್ನು ಪೂಜ್ಯವೆಂದು ಭಾವಿಸುವ ಮೂಲಕ ಪ್ರಕೃತಿಯನ್ನು ಮನುಷ್ಯರಿಂದ ರಕ್ಷಿತವಾಗುವಂತೆ ಮಾಡುವಲ್ಲಿ ಪ್ರಮುಖ ಪಾತ್ರ ವಹಿಸಿತ್ತು. ಸಂಪತ್ತಿನ ಸೃಷ್ಟಿ ಉಪಭೋಗಕ್ಕೆ ಮಾತ್ರ ಸೀಮಿತ ಮತ್ತು ಅದುವೇ ಬೆಳವಣಿಗೆಯ ಸಾರಥಿ ಎಂದು ಭಾವಿಸಲಾಯಿತು. ಆಧುನಿಕ ಬಂಡವಾಳಶಾಹೀ ಪ್ರಾರೂಪಕ್ಕಿಂತ ಇದು ನೇರವಾದ ವೈದೃಶ್ಯವುಳ್ಳದ್ದು.

ಈ ತಾತ್ತಿ ಕ ಪ್ರಾರೂಪವನ್ನು ಅನುಷ್ಠಾನಕ್ಕೆ ತರಲು ಸಕ್ರಿಯ ಭೌತಿಕ ಜೀವನದಿಂದ ದೈವಸಾಕ್ಷಾತ್ಕಾರವಾಗುವ ಹಂತದ ಮಧ್ಯೆ ವಾನಪ್ರಸ್ಥ(ಏಕಾಂತವಾಸದ ನಿವೃತ್ತ ಜೀವನ)ವೆಂಬ ಸಂಕ್ರಮಣ ಬಿಂದುವಿನ ಕಲ್ಪನೆಯನ್ನೂ ಮಾಡಲಾಯಿತು. ಆದ್ದರಿಂದ, ಪುರುಷಾರ್ಥದ ತಾತ್ತಿ ಕ ಕಲ್ಪನೆಯು ಆಧುನಿಕ ಮಾದರಿಯಂತೆ ಸಂಪತ್ತನ್ನು ಹಕ್ಕೆಂದು ಹೇಳದೆಯೇ, ಕರ್ತವ್ಯವೆಂದು ತಿಳಿಸುವುದೇ ಹಿಂದೂ ಭಾರತದ ಭೌತಿಕ ಶಾಸನದ ಮೂಲ ಹಾಗೂ ಪ್ರಾಥಮಿಕ ಮಾದರಿಯಾಗಿತ್ತು. ಒಂದೆಡೆ ಕರ್ತವ್ಯದ ಕಲ್ಪನೆಯು ಸ್ವಯಂಪ್ರೇರಿತವಾದ ದೃಢವಾದ ಸಾಮಾಜಿಕ ಕಾರ್ಯವಿಧಾನದಿಂದ ಕೂಡಿದ್ದರೆ, ಇನ್ನೊಂದೆಡೆ ಹಕ್ಕಿನ ಕಲ್ಪನೆಯು ಶಾಸನಿಕವಾಗಿದ್ದು ಒತ್ತಾಯಪೂರ್ವಕವಾದ ಕಠಿಣ ಕಾರ್ಯವಿಧಾನದಿಂದ ಕೂಡಿದ್ದಾಗಿದೆ. ಆಧುನಿಕ ಪರಿಪ್ರೇಕ್ಷ್ಯದಿಂದ ಹೇಳುವುದಾದರೆ, ಪುರುಷಾರ್ಥದ ಕಲ್ಪನೆಯು ಸ್ವಯಂಪ್ರೇರಿತವಾದ ಮತ್ತು ಪ್ರಮಾಣಬದ್ಧವಾದ ಸಾಮಾಜಿಕ ವ್ಯವಸ್ಥೆಯ ಸೃಷ್ಟಿಗೆ ಹಾಗೂ ಕಾರ್ಯಶೀಲ ಮತ್ತು ಸಾಂಸ್ಕೃತಿಕ ವ್ಯಾಖ್ಯಾನದ ಶಿಸ್ತಿನ ನಿಯಮಾವಳಿಯಿಂದ ಉಂಟಾದ ನಿಯಂತ್ರಿತ ಅರ್ಥಶಾಸ್ತ್ರಕ್ಕೆ ಕಾರಣವಾಯಿತು. ಅದರಿಂದ ಅಂತಿಮವಾಗಿ ಸಮತೋಲಿತವಾದ ಬೃಹದರ್ಥಶಾಸ್ತ್ರ ವ್ಯವಸ್ಥೆಗೆ ನಾಂದಿಯಾಯಿತು.

ಸಂಪತ್ತಿನೆಡೆಗಿನ ಕರ್ತವ್ಯಕ್ಕೂ, ಹಕ್ಕಿಗೂ ದಾರ್ಷ್ಟ್ಯಾಂತಿಕ ವ್ಯತ್ಯಾಸವಿದೆ. ಈ ವ್ಯತ್ಯಾಸವು ಜೀವನದ ಸಾಮಾಜಿಕ, ಆರ್ಥಿಕ ಮತ್ತು ಪಾರಿಸರಿಕ ಅಂಶಗಳ ಮೇಲೆ ದೊಡ್ಡ ಪ್ರಭಾವವನ್ನು ಬೀರಿದೆ. ಕರ್ತವ್ಯಪ್ರಜ್ಞೆಯು ಪರಿಸರದೊಂದಿಗೆ ಸಮನ್ವಯ ಸಾಧಿಸುವಂತದ್ದಾದರೆ, ಹಕ್ಕಿನ ಚಿಂತನೆಯು ಮೂಲತಃ ಸ್ವಾರ್ಥದಿಂದ ಕೂಡಿದ್ದಾಗಿದೆ. ಕರ್ತವ್ಯಪ್ರಜ್ಞೆಗೆ ಬಲನೀಡುವ ಮೂಲಕ ಹಿಂದುತ್ವವು ಮನುಷ್ಯನ ಸ್ವಭಾವವನ್ನು ನಿಯಂತ್ರಿಸಿತು, ವಿಶೇಷವಾಗಿ ಸಂಪತ್ತಿನ ವಿಷಯದಲ್ಲಿ.

ಇದೇ ಕಾರಣದಿಂದ ಬೇರೆಲ್ಲ ಸಂಸ್ಕೃತಿಗಳಿಗಿಂತ ಹಿಂದುತ್ವವು ವಿಶೇಷ ಆರ್ಥಿಕ ಬೆಳವಣಿಗೆಯೆಡೆಗೆ ತನ್ನ ಪ್ರವೃತ್ತಿಯನ್ನು ಪ್ರದರ್ಶಿಸಿ ಮತ್ತದನ್ನು ಏಕರೂಪವಾಗಿ ಸಾಧಿಸುತ್ತಾ ಬಂದಿದೆ. ಆದರೆ ಹಿಂದೂ ಭಾರತದ ಈ ಹಿಂದಿನ ನಿರ್ವಹಣೆಯು ಇನ್ನು ಮುಂದೆಯೂ ಮುಂದುವರಿಯುವುದೆಂದು ಹೇಗೆ ನಿಶ್ಚಯವಾಗಿ ಹೇಳುವುದು? ಏಕೆಂದರೆ ಅಷ್ಟು ಬೆಳವಣಿಗೆಯನ್ನು ಹೊಂದಿದ್ದ ಭಾರತವು ೧೮ ಮತ್ತು ೧೯ನೇ ಶತಮಾನಗಳಲ್ಲಿ ಕುಸಿದುದೇಕೆ? ಜಗತ್ತು ತೀವ್ರವಾಗಿ ಬದಲಾಗಿದೆ. ಈ ಮೂರು ಶತಮಾನಗಳಲ್ಲಿ ಯಾವುದೇ ದೇಶದ ಈ ಹಿಂದಿನ ವಿಕಾಸವೇ ಬೇರೆಲ್ಲದಕ್ಕಿಂತ ಮುಂದಿನ ಭವಿಷ್ಯತ್ತಿಗೆ ದೊಡ್ಡ ಆಶಾಕಿರಣ. ಚಿಂತನೀಯ ಅಂಶವೆಂದರೆ ಹಿಂದೂ ಭಾರತವು ತನ್ನ ಭೂತಕಾಲವನ್ನು ಭವಿಷ್ಯತ್ತಿನಲ್ಲಿ ಮರುಕಳಿಸಬಲ್ಲುದೇ? - ಎಂಬುದು.

ಪಾರಂಪರಿಕ ಹಿಂದುತ್ವವು ಆಧುನಿಕ ಅರ್ಥಶಾಸ್ತ್ರಕ್ಕೆ ಹೊಂದುವುದೇ?

ಈಗಿನ ಕಾಲದ ಪಶ್ಚಿಮಪ್ರೇರಿತವಾದ ಆಧುನಿಕತೆಯ ಬೀಜಾವಾಪವಾಗಿದ್ದು, ಯೂರೋಪ್‌ನ ಪುನರುತ್ಥಾನದ ಆಂದೋಲನದ ಕಾರಣದಿಂದ. ಇಂತಹ ಆಧುನಿಕತೆಯ ಪರಿಣಾಮವು ವಾಣಿಜ್ಯದ ಮೇಲಷ್ಟೇ ಅಲ್ಲದೇ ಭೂ-ರಾಜಕೀಯ ಮತ್ತು ಸೇನೆಯಲ್ಲಿಯೂ ಆಯಿತು. ವೈಶ್ವಿಕ ತುಲನೆಯ ಪಾರಂಪರಿಕ ರೀತಿಯು ಒಮ್ಮೆಗೇ ಬದಲಾಯಿತು ಮತ್ತು ಪಶ್ಚಿಮಪ್ರೇರಿತವಾದ ಆಧುನಿಕತೆಯು ತನ್ನ ಚಿಂತನೆ, ಜೀವನಪದ್ಧತಿ ಮತ್ತು ಶಿಕ್ಷಣಸಂಸ್ಥೆಗಳ ಮೂಲಕ ವಿಶ್ವವನ್ನು ಏಕರೂಪಗೊಳಿಸಲು ಹೆಣಗಿತು. ಅಲ್ಲಿನ ಲಂಗುಲಗಾಮಿಲ್ಲದ ವ್ಯಕ್ತಿಸ್ವಾತಂತ್ರ್ಯ ಮತ್ತು ವೈಯಕ್ತಿಕ ಹಕ್ಕುಪ್ರಜ್ಞೆಯು ಭೌತಿಕ ಜಗತ್ತಿಗೆ ಅಸೀಮ ಶಕ್ತಿಯನ್ನು ವಿಮುಕ್ತಗೊಳಿಸಿತು. ಈ ಕಾರಣದಿಂದ ವಿಭಿನ್ನವಾದ ಜೀವನಪದ್ಧತಿಗಳು ಮತ್ತು ಆರ್ಥಿಕತೆಗಳು ಹುಟ್ಟಿಕೊಂಡವು. ಅದರಿಂದ ಸಾಂಪ್ರದಾಯಿಕ ಬಂಡವಾಳಶಾಹಿ ಅಥವಾ ಅದರ ಪರಿಣಾಮ, ಮಾರ್ಕ್ಸಿಸಂ ಅಥವಾ ನವಸಂಪ್ರದಾಯ ಅಥವಾ ಆಧುನಿಕ ಅರ್ಥಶಾಸ್ತ್ರಗಳು ಹುಟ್ಟಿದವು. ಮತ್ತು ಈ ಸರಪಳಿಯು ಮುಂದುವರಿದು ಕಾಲಕಾಲಕ್ಕೆ ಅನೇಕ ಸವಾಲುಗಳನ್ನು ಒಡ್ಡುತ್ತಿವೆ. ಭೌತಿಕ ಜೀವನಪದ್ಧತಿಯು ತೀವ್ರವಾದಂತೆಲ್ಲ ಆಧುನಿಕ ಮತ್ತು ಸಾಂಪ್ರದಾಯಿಕ ರಾಷ್ಟ್ರಗಳೆರಡಕ್ಕೂ ಆರ್ಥಿಕ ಸವಾಲುಗಳು ಪ್ರಮುಖ ಸಮಸ್ಯೆಯಾಗಿ ಪರಿಣಮಿಸಿವೆ. ವಾಸ್ತವವಾಗಿ, ಪಶ್ಚಿಮದ ಅಭಿಪ್ರಾಯದ ಪ್ರಕಾರ ಆಧುನಿಕೀಕರಣವೊಂದೇ ಹಿಂದುಳಿದ ರಾಷ್ಟ್ರಗಳ ಈ ಆರ್ಥಿಕ ಸಮಸ್ಯೆಗಳಿಗೆ ಉತ್ತರ. ಮತ್ತದರ ಮೂಲ ಸಿದ್ಧಾಂತ, ಆಧುನಿಕೀಕರಣಗೊಳ್ಳದ ಸಮಾಜಗಳು ಆಧುನಿಕೀಕರಣಗೊಳ್ಳದಿದ್ದರೆ ಬೆಳವಣಿಗೆ ಹೊಂದಲಾರವು. ಪಶ್ಚಿಮದ ಆಧುನಿಕೀಕರಣದ ಕಲ್ಪನೆಯ ಪ್ರಕಾರ ಭಾರತವಿನ್ನೂ ಆಧುನಿಕೀಕರಣಗೊಂಡಿಲ್ಲ, ಅಥವಾ ಪಶ್ಚಿಮದ ಕಲ್ಪನೆಯ ಪ್ರಕಾರ ಆಧುನಿಕೀಕರಣಗೊಳ್ಳದಿರಬಹುದು. ಆದರೆ, ಅದು ಎಲ್ಲ ಆಧುನಿಕ ಆರ್ಥಿಕ ಬೆಳವಣಿಗೆಯ ಸವಾಲುಗಳನ್ನು ಎದುರಿಸುತ್ತದೆ. ಸಾಮಾನ್ಯದೃಷ್ಟಿಯಿಂದ ಹೇಳುವುದಾದರೆ ಜಪಾನ್ ಮತ್ತು ಚೈನಾವನ್ನೂ ಸೇರಿಸಿ ಏಷಿಯನ್ ರಾಷ್ಟ್ರಗಳು ಪಶ್ಚಿಮದ ಕಲ್ಪನೆಗಿಂತ ಭಿನ್ನವಾಗಿ ತಮ್ಮದೇ ರೀತಿಯಲ್ಲಿ ಆಧುನಿಕೀಕರಣಗೊಳ್ಳುತ್ತಿವೆ; ಅದರಂತೆ ಭಾರತವೂ ಕೂಡ ಪಶ್ಚಿಮದ ಕಲ್ಪನೆಗೆ ಮೊರೆಹೋಗದೆ ತನ್ನದೇ ರೀತಿಯಲ್ಲಿ ಆಧುನಿಕೀಕರಣಗೊಳ್ಳುತ್ತಿದೆ. ಆದರೆ ಆಧುನಿಕ ಆರ್ಥಿಕ ಸವಾಲುಗಳು ಮಾತ್ರ ರಾಷ್ಟ್ರೀಯ ಮತ್ತು ವೈಶ್ವಿಕ.

ಆದ್ದರಿಂದ ಈಗ ಮೇಲೇಳುವ ಪ್ರಶ್ನೆಯೆಂದರೆ: ಹಿಂದುತ್ವವು ಆಧುನಿಕ ಆರ್ಥಿಕ ಬೆಳವಣಿಗೆಯ ಸವಾಲುಗಳಿಗೆ ಉತ್ತರ ನೀಡಬಲ್ಲದೇ? ಇನ್ನೂ ಮುಂದುವರಿದು ಈ ಪ್ರಶ್ನೆಗಳು ಹೆಚ್ಚಾಗುತ್ತವೆ ಮತ್ತು ಒಗಟಾಗುತ್ತವೆ, ರಾಷ್ಟ್ರೀಯ ಮತ್ತು ವೈಶ್ವಿಕಸ್ತರದಲ್ಲಿ. ಈ ಪ್ರಶ್ನೆಗಳಿಗೆ ಉತ್ತರ ಹುಡುಕುವ ಪ್ರಯತ್ನದಲ್ಲಿ ಮೊದಲು ಹಿಂದುತ್ವ ಎಂದರೇನೆಂದು ತಿಳಿಯಬೇಕು. ತದನಂತರ ಅದು ಆಧುನಿಕ ಆರ್ಥಿಕ ಪರಿಕಲ್ಪನೆ ಮತ್ತು ಸಂಸ್ಥೆಗಳಿಗೆ ಹೊಂದುವುದೋ ಇಲ್ಲವೋ ಎಂಬುದನ್ನು ತಿಳಿಯಬಹುದು. ಹಿಂದುತ್ವದ ಪರಿಕಲ್ಪನೆಯು ಆಧುನಿಕ ಜಗತ್ತಿಗೆ ಹೊಂದಿಕೆಯಾಗದ ಹೊರತು ಮತ್ತು ಅದರ ವಿಕಾಸಕ್ಕೆ ಕೊಡುಗೆ ನೀಡದ ಹೊರತು, ಮತ್ತು ಬೆಳವಣಿಗೆಗೆ ಸಹಕಾರಿಯಾಗದ ಹೊರತು, ಭೌತಿಕ ಜಗತ್ತಿಗೆ ಅದರ ಸಾಂದರ್ಭಿಕತೆ ಅರಿವಾಗುವುದಿಲ್ಲ. ಹೀಗಾಗದಿದ್ದಲ್ಲಿ ಇಸ್ಲಾಮೀ ದೇವತಾಶಾಸ್ತ್ರಜ್ಞರು ಮತ್ತು ಉಗ್ರವಾದಿಗಳಿಗಾದಂತೆ ಆಧುನಿಕತೆಯ ವಿರೋಧಿಯೆಂಬ ಹಣೆಪಟ್ಟಿ ಬೀಳಬಹುದು. ಈ ಆಧುನಿಕತೆಯಲ್ಲಿ ಆಧುನಿಕ ಆರ್ಥಿಕ ಬೆಳವಣಿಗೆ ಮತ್ತು ಆಧುನಿಕ ಆರ್ಥಿಕ ಸವಾಲುಗಳು ಕೂಡಾ ಸೇರಿವೆ. ಈ ಸಂವಾದವು ಮುಂದುವರಿದು ಆಧುನಿಕ ಸಂದರ್ಭದಲ್ಲಿ, ವಿಶೇಷವಾಗಿ ಬೇರೆ ಮತಗಳಿಗೆ ಸಂಬದ್ಧವಾಗಿ ಹಿಂದುತ್ವವೆಂದರೇನೆಂಬ ಪ್ರತ್ಯೇಕ ಸಂವಾದಕ್ಕೆ ಎಡೆಮಾಡಿಕೊಟ್ಟಿದೆ.

ವಿಶ್ವ ವಾಣಿಜ್ಯಕೇಂದ್ರ ಹೇಳುವಂತೆ ಹಿಂದುತ್ವವೊಂದೇ ಮುಕ್ತ ವೈಶ್ವಿಕ ವಾಣಿಜ್ಯಕ್ಕೆ ಭರವಸೆ ನೀಡುತ್ತದೆ.

ಇಲ್ಲಿಯವರೆಗಿನ ಸಂವಾದವು ಹಿಂದುತ್ವದ ನೈಜ ಸಾಮರ್ಥ್ಯವನ್ನು ಪ್ರಕಾಶಪಡಿಸಿದೆ. ಅದು, ಪಶ್ಚಿಮದಲ್ಲಿ ಜನಿಸಿದ ಸಾಂವಿಧಾನಿಕ ರಾಜ್ಯತಂತ್ರ, ಜಾತ್ಯತೀತ (ಸೆಕ್ಯುಲರ್) ಆಧುನಿಕೀಕರಣ ಮತ್ತು ಧಾರ್ಮಿಕ ದೃಷ್ಟಿಕೋನದೊಂದಿಗೆ ಸಂಘರ್ಷಕ್ಕಿಳಿಯದೇ, ಅವುಗಳಿಗೆ ಬೆಂಬಲ ಮತ್ತು ಪೋಷಣೆ ನೀಡುವುದು; ಮತ್ತು ಮುಂದುವರಿದು ಹಿಂದುತ್ವದ ಯೋಗ್ಯ ಸಾಮರ್ಥ್ಯವು ವೈಶ್ವಿಕ ನಾಗರಿಕ ಸಮಾಜದ ಸಾಂಪ್ರದಾಯಿಕ ಉತ್ಪತ್ತಿಗೆ ನಾಂದಿಹಾಡಿ ಅದರ ಮೂಲಕ ಏಕರೂಪವಾಗಿ ಎಲ್ಲ ರಾಷ್ಟ್ರಗಳ ಆರ್ಥಿಕ ಬೆಳವಣಿಗೆಗೆ ಸಹಕಾರಿಯಾಗುವಂತೆ ಕಾಣುತ್ತಿದೆ. ಹಿಂದುತ್ವದ ಈ ಅಂತರ್ನಿಹಿತ ಸಾಮರ್ಥ್ಯ ಯಾವುದೇ ಹಿಂದೂ ನಾಯಕನೋ ಅಥವಾ ತತ್ತ ಜ್ಞಾನಿಯೋ ಅಥವಾ ಯಾವುದೇ ಭಾರತೀಯನೋ ಸಂಶೋಧಿಸಿ ಹೊರತೆಗೆದದ್ದಲ್ಲ. ಬದಲಾಗಿ ದೈವವನ್ನು ನಂಬದ ಸ್ವೋಪಜ್ಞ ಅರ್ಥಶಾಸ್ತ್ರಜ್ಞರಾದ ಮತ್ತು ವೈಶ್ವಿಕ ವಾಣಿಜ್ಯ ತಜ್ಞರಾದ ಪ್ರೊ. ಜೀನ್ ಪಿಯರ್ ಲೇಮನ್‌ರವರು ಈ ಸಂಶೋಧನೆ ನಡೆಸಿದವರು. ಅವರು ಐಎಂಡಿ(IMD) ಎಂಬ ಸ್ವಿಡ್ಜರ್‌ಲ್ಯಾಂಡ್‌ನ ಪ್ರಸಿದ್ಧವಾದ ಮ್ಯಾನೇಜ್‌ಮೆಂಟ್ ಸಂಸ್ಥೆಯಲ್ಲಿ ಪ್ರೊಫೆಸರ್ ಆಗಿದ್ದಾರೆ, ಮತ್ತು ಅವರು ವಿಶ್ವ ವಾಣಿಜ್ಯ ಕೇಂದ್ರ(ಡಬ್ಲ್ಯೂ.ಟಿ.ಓ.)ದಲ್ಲಿ ಪ್ರಮುಖ ಆರ್ಥಿಕ ಸಲಹೆಗಾರರಾಗಿದ್ದಾರೆ. ಅವರಿಂದ ಸಂಸ್ಥಾಪಿಸಲ್ಪಟ್ಟ ಮತ್ತು ಅವರ ನಾಯಕತ್ವದ ವೈಶ್ವಿಕ ಯೋಜನೆ - ಇವಿಯನ್ ಗ್ರೂಪ್ನಲ್ಲಿ ಯೂರೋಪ್, ಏಷಿಯಾ ಮತ್ತು ಅಮೆರಿಕಾದ ಉನ್ನತ ಶ್ರೇಣಿಯ ಅಧಿಕಾರಿಗಳು, ಸ್ವತಂತ್ರ ಆರ್ಥಿಕ ತಜ್ಞರು ಮತ್ತು ನಾಯಕರಿದ್ದಾರೆ. ಇವಿಯನ್ ಗ್ರೂಪ್ ತನ್ನ ಚಿಂತನೆಯನ್ನು ಕೇಂದ್ರೀಕರಿಸಿರುವುದು ವೈಶ್ವಿಕ ಯುಗದಲ್ಲಿ ಅಂತರರಾಷ್ಟ್ರೀಯ ಆರ್ಥಿಕ ವ್ಯವಸ್ಥೆಯ ಬಗೆಗೆ. ಅದರಲ್ಲೂ ವಿಶೇಷವಾಗಿ ಅಂತರರಾಷ್ಟ್ರೀಯ ವಾಣಿಜ್ಯ ಮತ್ತು ವಿಶ್ವ ವಾಣಿಜ್ಯ ಕೇಂದ್ರದ ನಿರ್ಣಯಗಳ ವ್ಯತಿರಿಕ್ತ ಪರಿಣಾಮಗಳ ಮೇಲೆ. ಆದ್ದರಿಂದ, ಪ್ರೊ. ಲೇಮನ್‌ರು, ಮತ ಮತ್ತು ವೇದಾಂತಕ್ಕಿಂತ ವಾಣಿಜ್ಯ ಮತ್ತು ಆರ್ಥಿಕತೆಗೆ ಹೆಚ್ಚು ಒತ್ತು ನೀಡಿದ್ದಾರೆ.

ಪ್ರೊ. ಲೇಮನ್‌ರ ಪ್ರಕಾರ ವೈಶ್ವಿಕ ವಾಣಿಜ್ಯ ಮತ್ತು ಜಾಗತೀಕರಣದ ಸುಗಮ ನಡೆಗೆ ಶಾಂತಿಯುತವಾದ ವೈಶ್ವಿಕ ವ್ಯವಸ್ಥೆ ಅತ್ಯಂತ ಅಪೇಕ್ಷಿತ. ಮತ್ತು ವಿಶ್ವಶಾಂತಿಗಾಗಿ ಅದಕ್ಕೆ ಸಹಾಯಕವಾಗುವ ಮತ ಮತ್ತು ತತ್ತ ಜ್ಞಾನ ಇರಲೇಬೇಕು. ಮತದ ಹೆಸರಿನಲ್ಲಿ ಜಗತ್ತಿನಲ್ಲಿ ನಡೆಯುತ್ತಿರುವ ಗಲಭೆಗಳು ಮತ್ತು ಅದರಿಂದ ಜಾಗತಿಕ ವ್ಯವಸ್ಥೆ ಹಾಳಾಗಿರುವುದು ಏಕದೈವವಾದಿ ಮತಗಳಿಂದ. ಜಾಗತೀಕರಣಕ್ಕೆ ಹೊಂದುವ ಮತದ ಅನ್ವೇಷಣೆಯಲ್ಲಿ ಪ್ರೊ. ಲೇಮನ್‌ರು ಅದಕ್ಕುತ್ತರವಾಗಿ ಹಿಂದುತ್ವವನ್ನು ಕಾಣುತ್ತಾರೆ. ಯಾವ ರೀತಿಯ ಮತವು ಇತರೆ ಮತನಿಷ್ಠರೊಂದಿಗೆ ಒಳ್ಳೆಯ ಸಂಬಂಧವನ್ನು ಹೊಂದಲರ್ಹವಾದುದು ಎಂಬುದನ್ನು ಯೋಚಿಸಿ ಅವರು ಹೇಳುವುದು, ಅಂತಹ ಮತವು ವಿಶೇಷವಾಗಿ, ಒಳ್ಳೆಯ ಆರ್ಥಿಕ ಬೆಳವಣಿಗೆಗೆ ಪೋಷಕವಾಗಿರಬೇಕು ಎಂದು. ಅದಕ್ಕಾಗಿ ಅವರು ಭಾರತವನ್ನು ಸಮರ್ಥ ಅಭ್ಯರ್ಥಿಯಾಗಿ ಭಾವಿಸುತ್ತಾರೆ. ಮತ್ತು ಹಿಂದುತ್ವವನ್ನು ವಿಶ್ವಶಾಂತಿಯ ಮತ್ತು ಅಭಿವೃದ್ಧಿಯ ಮಾರ್ಗದ ವಾಹಕವೆಂದು ಕಂಡಿದ್ದಾರೆ. ಏಕೆಂದರೆ ಹಿಂದುತ್ವವು ಆಧುನಿಕ ಜಾತ್ಯತೀತತೆಯನ್ನು ಶಿಥಿಲಗೊಳಿಸದೆಯೇ ಅದಕ್ಕೂ ಸ್ಥಾನ ನೀಡಿದೆ. ಜಾಗತೀಕರಣದ ಯುಗದಲ್ಲಿ ಏಕದೈವವಾದ ಎಂಬ ತಮ್ಮ ಪ್ರಬಂಧದಲ್ಲಿ ಪ್ರೊ. ಲೇಮನ್‌ರು ಹೇಳುವುದು - ಅಸಂಖ್ಯ ದೇವತೆಗಳನ್ನು ಪೂಜಿಸಿ ಒಪ್ಪಿಕೊಳ್ಳುವ ಹಿಂದುತ್ವದ ಮಹಾನತೆಯ ಕಾರಣದಿಂದಲೇ ತಮ್ಮ ದೇವರನ್ನೇ ಶ್ರೇಷ್ಠವೆಂದು ಭಾವಿಸುವ ಏಕದೈವವಾದಿ ಮತಗಳನ್ನೂ ಅದು ಸಹಿಸಿಕೊಂಡಿದೆ." ಅವರು ಮುಂದೆ ಹೀಗೆ ಬರೆಯುತ್ತಾರೆ:

ನಿಮ್ಮಲ್ಲಿ ಒಬ್ಬನೇ ದೇವರಿದ್ದರೆ ಮತ್ತು ದೇವರನ್ನು ಸರ್ವಜ್ಞ ಮತ್ತು ಸರ್ವಶಕ್ತ ಎಂದು ನೀವು ಭಾವಿಸಿದರೆ, ನಿಮ್ಮೆದುರು ಅದನ್ನೊಪ್ಪದ ವ್ಯಕ್ತಿ ಇದ್ದರೆ, ಅವನನ್ನು ಕೊಲ್ಲುವುದು ನಿಮ್ಮ ಕರ್ತವ್ಯವೆಂದು ಅನ್ನಿಸಬಹುದು. ಮತ್ತೊಂದು ಕಡೆ ನೀವು ನೂರಾರು ಅಥವಾ ಸಾವಿರಾರು ದೇವರ ಅಸ್ತಿತ್ವವನ್ನು ನಂಬುವುದಾದರೆ ಯಾರೂ ಸರ್ವಜ್ಞ ಅಥವಾ ಸರ್ವಶಕ್ತನಾಗಲಾರ. ಅದರಿಂದ ನೀವು ಅತ್ಯಂತ ಹೆಚ್ಚು ಸಹಿಷ್ಣುಗಳಾಗುತ್ತೀರಿ."

ಸಂಕ್ಷೇಪವಾಗಿ ಹೇಳುವುದಾದರೆ, ಹಿಂದುತ್ವವು ಅಂತಿಮವಾಗಿ ವಿಶ್ವಾಸವಿರಿಸುವುದು ಬ್ರಹ್ಮವೆಂಬ ಐಕ್ಯದ ಕಲ್ಪನೆಯಲ್ಲಾದರೂ ಕೂಡ, ಹಿಂದುತ್ವದಲ್ಲಿರುವ ಅಸಂಖ್ಯ ದೇವತಾತತ್ತ ಗಳು ಅದನ್ನು ಹೆಚ್ಚು ಸಹಿಷ್ಣುವನ್ನಾಗಿ ಮಾಡುತ್ತವೆ. ಇಂತಹ ಸಹಿಷ್ಣುತೆಯನ್ನು ಏಕದೈವವಾದಿ ನಿಷ್ಠೆಗಳಲ್ಲಿ ಕಾಣಲು ಸಾಧ್ಯವಿಲ್ಲ. ಸ್ವತಃ ದೈವವನ್ನು ನಂಬದ ಲೇಮನ್, ಅಂತಹ ಮತಗಳು ಬಯಸುವ ಎಲ್ಲ ಮತಗಳ ಅಪಾಕರಣೆ ಎಂದಿಗೂ ಅಸಾಧ್ಯವೆಂದು ಅಭಿಪ್ರಾಯಪಡುತ್ತಾರೆ:

..... ಯಹೂದ್ಯ, ಕೆಸ್ತ, ಇಸ್ಲಾಂ ಎಂಬ ಈ ಮೂರು ಏಕದೈವವಾದಿ ಮತಗಳು ತಮ್ಮ ಮತದ ಮೂಲಭೂತವಾದಿಗಳಿಂದ ಅಪಹೃತವಾಗಿವೆ. ನಾನು ದೃಢವಾಗಿ ನಂಬುವುದು, ನಾಗರಿಕತೆಯ ವಿಕಾಸಕ್ಕೆ ಎಲ್ಲ ರೀತಿಯ ಸ್ಥಾಪಿತ ಮತಗಳ ಕ್ರಮಬದ್ಧ ಅಪಾಕರಣವಾಗಬೇಕು. ಅದು ಶಕ್ತಿಯ ಪ್ರಯೋಗದಿಂದಲ್ಲ, ಬದಲಾಗಿ ಇತಿಹಾಸದ ಪುರಾವೆಯಿಂದ, ಮಾನವ ತರ್ಕದಿಂದ ಮತ್ತು ಮಾನವ ಜಾತ್ಯತೀತತೆಯ ಪರಿಗ್ರಹದಿಂದ.

ಪಶ್ಚಿಮ ಯೂರೋಪ್‌ನಲ್ಲಿನ ಹೆಚ್ಚಿನ ಜನಸಂಖ್ಯೆ ಹೆಸರಿನಿಂದ ಮಾತ್ರ ಕೆಸ್ತರನ್ನು ಹೊಂದಿದೆ. ಆದರೆ, ಖೇದದ ಸಂಗತಿಯೆಂದರೆ, ಅಲ್ಲಿ ಮನುಷ್ಯತ್ವವಿನ್ನೂ ತನ್ನ ಆಧಿಪತ್ಯವನ್ನು ಸ್ಥಾಪಿಸಿಲ್ಲ."